ताम्रपट्टे पटे वा स्थानवंशादिसंयुक्तं धरणीवराहप्रतिपादक वचनाशीर्वादपूर्वकमात्मपितृपितामहप्रपितामहादीनां शौर्यादिवर्णनद्वारा आत्मानमभिलेख्य प्रतिग्रहपरिमाणादिकं लिखित्वा समामासपक्षाहस्संप्रदानग्रामादि लिखित्वा आगामिनृपबोधनार्थं "दातुः पालयितुः स्वर्गं हन्तुर्नरकमेव वा" ।
षष्टिर्वर्षसहस्राणि दानच्छेदफलं लिखेत् ।
"सामान्योऽयं धर्मसेतुर्नराणाम्"
इत्यादि लेखनीयम् । ततो राजा स्वहस्तसङ्केतं लिखेत्, तद्राजशासनमिति । तच्च प्रतिग्रहीत्रेऽर्पणीयम् । तस्योपयोगित्वात् । तदपि शासनदानं न दानसिद्ध्यर्थं, तस्य प्रतिग्रहेणैव सिद्धेः । किन्तु दत्तस्य स्थैर्यकरणार्थम् । स्थिरत्वे अक्षयफलश्रुतेः ।
जयपत्रिका नाम--
"यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।
क्रियाऽवधारणोपेतं जयपत्रेऽखिलं लिखेत्" ॥
आदिशब्देन साक्षिवचनसभ्यप्राढ्विवाककुलानां शास्त्रस्य मतं स्वहस्तेनान्यहस्तेन वा लिखेदिति तज्जयपत्रम् । अन्यदपि जयपत्रं बृहस्पतिराह--
"अन्यविद्यादिहीनेभ्यः उत्तरेषां प्रदीयते ।
व्यक्तानुवादसंसिद्धं तच्च स्याज्जयपत्रिकम्" ॥
उत्तरेषामहीनवाद्यादीनां, यथाऽऽह वृद्धवसिष्ठः--
"प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धेऽर्थे वादिने दद्यात् जयिने जयपत्रिकाम्" ॥ इति