पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५०

पुटमेतत् सुपुष्टितम्
119
व्यवहारकाण्डः

लेख्यपरीक्षा.

 लेख्यं लेख्याचारेण साक्ष्यं साक्ष्याचारेण विचारयेदित्याह कात्यायनः--

"राजा क्रियां [१]समाहूय यथान्याय्यं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः" ।।

इति । राज्ञा साक्षिण आहूय साक्ष्याचारेण लिखितं विचारयेत् । यद्वा लेख्याचारेण लिखितं विचारयेत् । अस्मिन् व्याख्याने क्रियामिति लक्षणे द्वितीया । क्रियानिर्णयार्थं लिखितं साक्षिणश्च विचारयेदिति । क्रियां समादायेति पाठे ऋजुरेवान्वयः । लेख्याचारमाह स एव--

"वर्णवाक्यक्रियायुक्तमसन्धिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिमाप्नुयात्" ॥

दुष्टलेख्यम्.

 क्रियानाम-- साध्यम् ।

दुष्टलेख्यस्वरूपमाह हारीतः--

"मुमूर्षुबालभीतार्तस्त्रीमत्तव्यसनातुरैः ।
निशोपधिबलात्कारैः कृतं लेख्यं न सिध्यति" ॥

बालस्त्रीशब्दावस्वतन्त्रोपलक्षकौ । यथाऽऽह कात्यायनः--

"मत्तेनोषधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति" ॥



  1. समादाय.