स्मार्तकालप्रमाणम्.
स्मार्तकालस्वरूपमाह पितामहः--
"त्रिंशत्समा या तु भुक्ता भूमिरव्याहता परैः ।
भुक्तिस्सा पौरुषी ज्ञेया द्विगुणा तु द्विपौरुषी ॥
त्रिपौरुषी तु त्रिगुणा तत ऊर्ध्वं चिरन्तनी" ।
अत्र नारदः--
अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥
इति । अनागममिति सिद्धवन्निर्देशादन्वाहितादीनां भोगे दण्ड इति ज्ञापितम् । अन्यथा पूर्वोक्तवचनविरोधात् । निश्चितागमाश्च तेनैव दर्शिताः ।
"अन्वाहितं हृतं न्यस्तं बलावष्टब्धयाचितम् ।
अप्रत्यक्षं च यद्भुक्तं षडागमविवर्जिताः" ॥
अन्वाहितं-- अन्यस्मै दातुमर्पितम् । बलावष्टब्धं-- राजप्रसादादिदिबलेन भुक्तम् । तथा च संवर्तः--
"या राज्ञा क्रोधलोभाभ्यां छलान्न्यायेन वा कृता ।
प्रदत्ता चापि तुष्टेन न सा सिद्धिमवाऽऽप्नुयात्" ॥
या खल्वन्यस्य भूमिः क्रोधादिना राज्ञा परभोग्यतया कृता तुष्ट्या च अन्यस्मै दत्ता सा चिरन्तनभोगेनापि न भोक्तुस्सिद्ध्यतीत्यर्थः । [१]पूर्वस्यापवादमाह याज्ञवल्क्यः--
"योऽभियुक्तः परेतस्स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विना कृता" ॥
- ↑ विनापूर्वक्रमागतादित्यस्याम्