पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८३

पुटमेतत् सुपुष्टितम्
152
श्रीसरस्वतीविलासे

इति । सामान्येन मनुवचनाच्च--

ब्राह्मणस्य वधाद्भूयानधर्मो विद्यते भुवि ।
तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥

इति--

इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥

इति याज्ञवल्क्यवचनाच्च । अतश्चतुणार्मपि वर्णानामित्यत्र चतुर्णां वर्णानां धनदण्डः । शारीरसहितधनदण्डस्तु ब्राह्मणव्यतिरिक्तत्रैवर्णिकानामवगन्तव्यः ।

 ननु द्वितीयकाण्डोऽर्थशास्त्रमित्युक्तं । अर्थशास्त्रे आततायिनो ब्राह्मणस्य हननं विधीयते--

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ।
आततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति ॥

तथा--

आततायिनमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जघांसीयान्न तेन भ्रूणहा भवेत् ।

इति । भ्रूणो-- ब्राह्मणः । आततायित्वं कूटसाक्षिणोऽप्यस्ति । यथाऽऽह विष्णुः--

 परदाराभिमर्शकः परक्षेत्रापहारी उद्यतासिः अग्निदो गरदः परद्रव्यापहारी महाभियोगेषु कूटसाक्षी मिथ्यामहाभियोगी चेत्याततायिनः इति,। अत्र पर शब्देन ब्राह्मण उच्यते । ब्राह्मण