पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८७

पुटमेतत् सुपुष्टितम्
156
श्रीसरस्वतीविलासे

गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥

इति । अतश्च द्विजानिति द्विजग्रहणं साक्षिमात्रोपलक्षक[१]मिति मन्तव्यं, शूद्रं सर्वैस्तु पातकैरिति शूद्रस्य शापविधानात् ॥ अत्र मनुना विशेषस्स्मृतः--

ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।

इति । वैश्यप्रश्ने विशेषानुक्तेः गोबीजकाञ्चनैर्वियोगः स्याद्यद्यन्यथा ब्रूयादिति शूद्रे तु [२]प्रश्नवाक्यप्रकारो मनुना प्रपञ्चितः--

ब्रह्मघ्ना ये स्मृताश्चौरा ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृतघ्नाश्च ते ते स्युर्वदतो मृषा ॥
जन्मप्रभृति यत्किञ्चित् पुण्यं भद्र त्वया कृतम् ।
तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
[३]अधश्शत्रुगृहं गच्छेत् यत्साक्ष्यमनृतं वदेत् ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदेत् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥
एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे ।
यथाश्रुतं यथादृष्टं सत्यमेवाञ्जसा वदेः ॥

कुरून् कुरुक्षेत्रम् । अञ्जसा शुद्धेन हृदयेन । जातानजाता



  1. मित्यवगन्तव्यम्.
  2. प्रश्नप्रकारो.
  3. अन्धः शत्रु.