पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०७

पुटमेतत् सुपुष्टितम्
176
श्रीसरस्वतीविलासे

षष्ठकृष्णलादारभ्य दशमानानां दशकादर्वाक्छूद्रो निकृष्टश्चेत्पुत्रेण भार्यया वा शपथं कुर्यात् । सच्छूद्रश्चेदस्मिन्नेवार्थे सर्वैः पातकैः शपथं कुर्यात् । यद्यप्यत्र--

शूद्रं सर्वैस्तु पातकैः ॥

पुत्रदारानवाप्यैनं शिरांसि स्पर्शयेत्पृथक् ।

इति । द्रव्यप्रमाणविशेषो नोक्तः; तथाऽप्यौचित्येन कृष्णलपञ्चकपरिसमाप्तेरारभ्य दशमानपणादर्वागेतौ भवितुमर्हतः । तथाच बृहस्पतिना-- विषादीनि धर्मजान्तानि दिव्यान्युक्त्वोक्तं--

सत्यं वाहनशास्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादांश्च पुत्रदारशिरांसि च ॥
एते तु शपथाः प्रोक्ताः सत्येर्थे सुकरास्सदा ।

इति । एवमेतेषां धर्मजं प्रत्यल्पार्थविषयत्वात् प्रत्ययस्वरूपपरामर्शनेनैव सीरोद्धृ(शिरोधृ)तमहीं प्रति गुर्वर्थविषयत्वावगमात् । पणदशकादर्वाक् कृष्णलपञ्चकादूर्ध्वं एतानि भवन्तीत्युक्तं । पणानां दशकादारभ्य पञ्चदशकादर्वाक् शूद्रस्य धर्मशोधनं भवति । अस्मिन्नेवार्थे हलोपजीविनां कृषिकाणां फालं दातव्यमिति । तथाच बृहस्पतिः--

शते हृतेऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचारस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥

इति । मानानां शतेऽपह्नुते च शूद्रस्य धर्मशोधनं भवति, मानशतस्य दशपणात्मकत्वात् । पणदशकादारभ्य पणपञ्चदशकादर्वाग्धर्मप्रत्ययो भवतीत्यर्थः । अस्मिन्नेवार्थे गोचारस्य फालं