पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०९

पुटमेतत् सुपुष्टितम्
178
श्रीसरस्वतीविलासे

षष्टिपणे शूद्रस्य जलप्रत्ययो भवति । पञ्चाशत्पणात्मके सहस्रमानार्धे शूद्रस्य तुलाधिरोहणं भवतीत्यर्थः ।

 ननु विषं सहस्र इत्यादौ सहस्रादिसंख्यानां संख्येयत्वेन तण्डुलतुलितमानसुवर्णमेव ग्राह्यमिति कथमवसीयते । उच्यते--

सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेतुं प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तथा दिव्यं प्रयोजयेत् ॥
शते विषं तु पादोने दत्तभुक्ततृतीयके ।
आपस्त्रिभागहीने तु शतार्धे तु तुला स्मृता ॥
कोशदानं तदर्धे वा दशपञ्चकसप्तसु ।
तदर्धे तण्डुला ज्ञेयास्तदर्धे तप्तमाषकम् ॥

इति कात्यायनः । तथाच--

ज्ञात्वा संख्यां सुवर्णस्य शतमाने विषं स्मृतम् ।
अशीतेस्तु विनाशे तु हुतभुक्प्रत्ययस्स्मृतः ॥

हुतभुक्-- परशुः ।

षष्ठ्या नाशे जलं देयं स्याच्चत्वारिंशके घटः ।
त्रिंशद्विनाशे वा कोशदानं तत्र बृहस्पतिः ॥
पञ्चार्धैकस्य वा नाशे तदर्धस्य तु तण्डुलाः ।

इति वृद्धमनुः । अनयोः कात्यायनवृद्धमनुवचनयोः शतनाशे विषमुक्तं । बृहस्पतिवचने तु सहस्रनाशे विषयुक्तमिति; अनेन ताभ्यां महान्विरोधोऽस्तीति प्रतीयते । तद्विरोधपरिहारार्थं भूयसांन्यायेन वचनद्वयानुसारेण बृहस्पतिवचनं योजनीयं । तथा च सति धर्मशास्त्रेषु दण्डविधानादौ संख्यादिमात्रे निर्दिष्टे पणानां व्यवहारार्थतया क्लृप्तत्वात्संख्येयतया प्रायेण पणा एव तत्र गृह्यन्त