पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२११

पुटमेतत् सुपुष्टितम्
180
श्रीसरस्वतीविलासे

कल्पयित्वा तद्विरोधपरिहारः कर्तव्य इत्यनुसन्धेयम् । ब्राह्मणस्यागामिकाल इत्यादि । अयमर्थः-- भविष्यत्कार्यविषये तु ब्राह्मणस्यापि कोशो भवतीति । शूद्रस्येति-- पूर्वोक्तद्रव्यप्रमाणानि शूद्रविषयाणीत्यर्थः । पूर्वोक्तसर्वविषयेषु द्विगुणार्थे वैश्यस्य शपथक्रिया भवति । त्रिगुणार्थे राजन्यस्य शपथक्रिया । चतुर्गुणार्थे ब्राह्मणस्य शपथक्रियेति द्रष्टव्यं, यत्तूक्तं । बृहस्पतिना--

एषा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणा चोत्तमानां कल्पनीया परीक्षकैः ॥

इति । तत्तूत्तमादर्वाचीनानां मध्यमादुत्कृष्टानां त्रैगुण्यप्रतिपादनस्याप्युपलक्षकं विष्णुवचनानुरोधात् । अनेनैव व्याख्यानेन एषा संख्या निकृष्टानामित्यादि मनुवचनमपि व्याख्यातम् । शूद्रादर्वाचीनानामपि शूद्रवदेव दिव्यानि देयानि ।

शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजास्स्मृताः ।

इति मनुवचनात् । केषांचिद्ब्राह्मणानामपि शूद्रवदेव दिव्यं देयमित्याह कात्यायनः--

गोरक्षकान् वाणिजकान् शिल्पिनश्च कुशीलवान् ।
प्रेष्यान्वार्धुषिकाश्चैव विप्राञ्छूद्रवदाचरेत् ॥

एतदुक्तं भवति-- शूद्रस्य पुत्रदारादिशपथस्थाने वैश्यस्य गोबीजकाञ्चनैः शपथः । क्षत्रियस्य वाहनशस्त्रैः । ब्राह्मणस्य सत्यवाक्येन । अतश्च यद्वृत्तं बाह्मणस्य तत्प्रयुक्ताश्शपथाः कार्या इति । अत्र विवदन्ते वृद्धाः-- केचिद्दिव्येषु पणानां संख्येयत्वेऽपि काकणिकचतुष्टये लोके पणव्यवहारात् काकणिकः पणचतुर्भाग इति वैयाकरणप्रसिद्धेश्च काकणिकचतुष्टयात्मकं सुव