पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१३

पुटमेतत् सुपुष्टितम्
182
श्रीसरस्वतीविलासे

पणस्यैव संख्येयत्वस्य न्याय्यत्वात् निष्कप्रतिपादकवचनाभावाच्च हेयं । ननु काकणिकानामष्टकं तण्डुलशब्देनोच्यते । मानशब्देनापि तदेवोच्यते । तत्र दण्डप्रकरणे--

माषानष्टौ तु महिषीं सस्यघातस्य काकिणीम् ।

इति वचनात्--

दापयेत्पणपादं तु गां पादौ माहषीं तथा ।

इति वचनात् । पणपादद्वयाष्टमानमाषशब्दयोरेकार्थत्वावगमात् षोडशमाषात्मकः पण इति गम्यते । तथा च चरके--

उत्थितस्त्वर्कजालेन त्रसरेणुक उच्यते ।
अष्टकं त्रसरेणूनां लिक्षेति परिकीर्त्यते ॥
तास्तिस्रः सर्षपः प्रोक्तः काकिणी स्यात्तु सा स्मृता ।
अष्टकं काकिणीनां तु तण्डुलः परिकीर्तितः ॥
तण्डुलं मानकं प्रोक्तं माषकः परिकीर्त्यते ।

यद्वस्तु स्मृतिषु मानशब्देनोच्यते तदेव वैद्यके मानशब्देनोच्यते ।

तद्द्वयं कृष्णलं प्रोक्तं मण्डिका कृष्णलद्वयम् ।
अस्तिकापणशब्दौ तु पर्यायेण प्रकीर्तितौ ॥

इति । अत्र षोडशात्मकः पण इति गम्यते । तथा वैखानससंहितायामपि--

मानस्तण्डुलमात्रं स्यादष्टमाषः पणस्स्मृतः ।

इति । तत्राप्यष्टकमेव काकिणीनां माषशब्देन तण्डुलशब्देन वोच्यते षोडशमानात्मकः पण इति; सत्यमेतत् । षोडशमाषात्मकः दशमाषात्मको वा पणः संख्येयत्वेन गृह्यते इति; तत्र शोध्यस्य गुणवत्त्वे षोडशमाषात्मकस्य संख्येयत्वेन ग्रहणम् ।