पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१९

पुटमेतत् सुपुष्टितम्
188
श्रीसरस्वतीविलासे

स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ।
प्रजेशरक्षसोर्मध्ये मातृस्थानं प्रकल्पयेत् ॥
ब्राह्मी माहेश्वरी चैव कौमारी चैव वैष्णवी ।
वाराही चैव माहेन्द्रा चामुण्डागणसंवृता ॥
निर्ऋतेरुत्तरे भागे गणेशायतनं विदुः ।
वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते ॥
[१]गगनस्पर्शनो वायुरनिलो मारुतस्तथा ।
प्राणः प्राणेजीवौ च मरुतोऽष्टौ प्रकीर्तिताः ॥

स्मृत्यन्तरे तु--

आवहो विवहश्चैव उद्वहः संवहस्तथा ।
निवहोऽधिवहश्चैव प्रवहोऽभिवहस्तथा ॥

इति । एतयोर्विकल्पः--

धटस्योत्तरदिग्भागे दुर्गामावाहयेद्बुधः ।
एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ॥
भूषावसानं धर्माय दत्वा चार्घ्यादिकं क्रमात् ।

भूषावसानं-- भूषान्तं । तदयमत्र निष्कर्षः-- तुलायामेह्येहीति मन्त्रेण धर्ममावाह्य आवाहिताय धर्माय अर्घ्यपाद्याचमनीयस्नानवस्त्राचमनीययज्ञोपवीताचप्रनीयमकुटकनकभूषान्तं दत्वा इन्द्रादीनां दुर्गान्तानामपि अर्घ्यादिभूषादिसपर्यां पदार्थानुसमयेन दत्वा उभयेषां गन्धपुष्पधूपदीपनैवेद्यादीनि दद्यादिति । गन्धपुष्पाणि घटपूजायां रक्तानि कार्याणि । यथाऽऽह नारदः--

रक्तैर्गन्धैश्च धूपैश्च दद्याद्दी(द्धू)पाक्षतादिभिः ।



  1. पवनः, वीरमित्रोदये, वा ।