पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२५

पुटमेतत् सुपुष्टितम्
194
श्रीसरस्वतीविलासे

अष्टाभिर्मण्डलैः प्रोक्तं अङ्गुलीनां शतद्वयम् ।
षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ॥
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ।

अङ्गुलप्रमाणं तुलाप्रकरणे दर्शितम् । पितामहेनाप्युक्तम्--

द्वात्रिंशदङ्गुलं प्राहुर्मण्डलं मण्डलान्तरम् ।
अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥
षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ।
कर्तुः पदसमं कार्यं मण्डलं तु प्रमाणतः ॥

 तत्र नवमं मण्डलमपरिमिताङ्गुलप्रमाणकं तं विहायाष्टभिर्मण्डलैश्चाष्टाभिश्चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशत्समधिकं शतद्वयं संपद्यते । तत्रापि सप्तैव गन्तव्यानि मण्डलानि । कथं? प्रथमे तिष्ठति नवमे क्षिपतीति । ननु--

द्वात्रिंशदङ्गुलं प्राहुर्मण्डलं मण्डलान्तरम् ।
अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥
चत्वारिंशत्समधिकं भूमेरङ्गुलमानतः ।

इति नारदोक्तिः कथमिति चेदुच्यते-

 अवस्थानमण्डलं विहाय गन्तव्यमण्डलाभिप्रायं तत् । अयमर्थः-- अवस्थानमण्डलात् षोडशाङ्गुलात् मण्डलान्तरमन्यमण्डलं द्वितीयाद्येकमेकं द्वात्रिंशदङ्गुलं सान्तराळं । तदेवमवस्थानमण्डलं षोडशाङ्गुलं गन्तव्यानि च सप्तमण्डलानि सान्तराळानि चत्वारिंशदङ्गुलानि एवमष्टभिर्मण्डलैश्चत्वारिंशत्समधिकशतद्वयं भूमेरङ्गुलमिति । अत्र दिव्यमातृकोक्तसाधारणधर्मेष्वनुष्ठितेषु तुलाप्रकर