पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२६

पुटमेतत् सुपुष्टितम्
195
व्यवहारकाण्डः

णोक्तधर्मावाहनादिशिरःपत्रान्तविध्यन्ते सति अग्निविधौ विशेषमाह प्रजापतिः--

पश्चिमे मण्डले तिष्ठेत् प्राङ्मुखः प्राञ्जलिश्शुचिः ।

तिष्ठेत्-- शोध्यः । शोधनप्रकारमाह--

लक्षयेयुः क्षतादीनि हस्तयोस्तस्य हारिणः ।

लक्षणं-- चिह्नं । यथाऽऽह नारदः--

हस्तक्षतेषु सर्वेषु कुर्याद्धंसपदानि च ॥

इति । अलक्तकरसादिना व्रणकिणस्थानेषु हंसपादाकारेण- अङ्कयित्वेत्यर्थः । ततःकिमित्यपेक्षिते याज्ञवल्क्यः--

करौ विमुदितव्रीही लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पर्णानि तावच्छुभ्राणि वेष्टयेत् ॥
वेष्टयीत सितैर्हस्तौ सप्तभिस्सूत्रतन्तुभिः ।

इति नारदवचनादश्वत्थपर्णमुपरि सप्त शमीपर्णानि सप्त दूर्वापर्णानि दध्यक्षतांश्च विन्यसेत् । तथा च पितामहः--

सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् ।
दूर्वायास्सप्त पर्णानि दध्यक्तानक्षतांस्तथा ॥

विन्यसेदिति शेषः । कुसुमनि च विन्यसेत् । तथा च पितामहः--

सप्त पिप्पलपत्राणि अक्षतान् सुमनो दधि ।
हस्तयोर्निक्षिपेत्तत्र सूत्रेणावेष्टितं तथा ॥

इति । सुमनसः-- पुष्पाणि । यत्तूक्तं हारीतेन--

अयस्तप्तं तु पाणिभ्यां अर्कपर्णैस्तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे ॥