र्वाचीनद्रव्यं त्रेधा विभज्य त्रिरात्रादिपक्षत्रयं व्यवस्थापनीयमिति । दैविकान्याह पितत्महः--
क्षयातिसारविस्फोटवातास्थिपरिपीडनम् ।
नेत्ररुग्जलरोगाश्च तथोन्मादः प्रजायते ॥
शिरोरुग्भुजभङ्गश्च व्याधयो दैविका नृणाम् ।
इति । राजकं-- राजदण्डः । यथाऽऽह विष्णुः--
यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहात्तथाऽपि वा ।
रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापि वा ॥
तमशुद्धं विजानीयात्तथा शुद्धं विपर्ययात् ।
राजदण्डशब्दः अर्थभ्रंशधनक्षययोरुपलक्षकः ।
रोगोऽग्निर्ज्ञातिमरणप्रर्थभ्रंशो धनक्षयः ॥
इति नारदोक्तेः । अर्थशब्द पुत्रादिवचन इति चन्द्रिकाकारः । अत एव स्वीयस्यापि जनस्य सर्वस्य मध्ये यदा यस्य कस्यचिद्वैकृतं भवेत्स हीयत इत्याह पितामहः--
न तस्यैकस्य किन्त्वेवं सर्वस्य यदि तद्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावनम् ॥
पितामहेन विशेष उक्तः--
भक्तो यो यस्य देवस्य पाययेत्तस्य तं नरम् ।
समभावे तु देवानामादित्यस्य तु पाययेत् ॥
दुर्गायाः पाययेच्चोरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत्तोयं ब्राह्मणं तन्नपाययेत् ॥
दुर्गायाः स्नापयेच्छूलमादित्यस्य तु मण्डलम् ।
इतरेषां तु देवानां स्नापयेदायुधानि तु ॥