पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४४

पुटमेतत् सुपुष्टितम्
213
व्यवहारकाण्डः

 चौर्ये तु तण्डुला देया नन्यस्मिन्निति निश्चयः ।

इति । अत्रान्यस्मिन्-- स्त्रीसङ्ग्रहणाद्यन्यतरविवादे, न धनविवादे । धनविवादे तु चौर्यादन्यत्रापि तण्डुला देयाः । तदर्धार्धस्य तण्डुला इति कात्यायनेनोक्तत्वात् । नच तद्वचनं चौर्यविषयमेवास्त्विति वाच्यम् । दत्तस्यापह्नवो यत्रेत्युपक्रमविरोधापत्तेरित्याह । इति तण्डुलविधिः ।

अथ तप्तमाषविधिः

अत्र पितामहः--

 तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् ।
 कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
 चतुरङ्गुलमात्रं तु मृन्मयं वाऽथ मण्डलम् ।
 पूरयेद्धृततैलाभ्यां विंशत्या वा पलैस्तु तत् ॥
 गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ।

मण्डलं-- परिमण्डलं-- वर्तुलमिति यावत् । घृततैलाभ्यां पूरयेदेकः पक्षः । गव्यघृतेन वा पूरयित्वा लौकिकमग्निं दिव्यदेशे प्रतिष्ठाप्य तत्र तापयेत् । पक्षद्वयेऽपि तापे वर्तमाने धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तसर्वदिव्यसाधारणविधिं विदध्यात् । घृततैलपूरणपक्षे पितामहेन विशेष उक्तः--

 सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः ।
 अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् ॥

तस्मिन्निति-- घृततैलाभ्यां पूरिते पात्रे--

 कराग्रं यो न धुनुयाद्विस्फोटो वा न जायते ।
 शुद्धो भवतु धर्मेण निर्विकारकराङ्गुळिः ॥