इत्यत्र शुद्धिविधानं उद्धरेदिति वचनात्पात्रादुत्क्षेपणमात्र एव; न बहि प्रक्षेपणे । गव्यघृतपूरणपक्षे पितामहेन विशेष उक्तः--
सुवर्णे राजते ताम्र आयसे मृन्मयेऽपि वा ।
गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥
सौवर्णीं राजतीं ताम्रीं आयसीं वा सुशोभिताम् ।
सलिलेन सकृद्धौतां मुद्रिकां तत्र निक्षिपेत् ॥
भ्रमद्वीचीतरङ्गाढ्ये न नखस्पर्शगोचरे ।
परीक्षेतार्द्रपत्रेण चरुकारं सघोषकम् ॥
ततश्चानेन मन्त्रेण सकृत्तदपि मन्त्रयेत् ।
परं पवित्रममृतं घृतं त्वं यज्ञकर्मसु ॥
दह पावक पापं त्वं हिमशीतं शुचेर्भव ।
शुचेः-- शुद्धस्य । पापं-- पापकर्माणम् । अनन्तरकृत्यमाह प्रजापतिः--
उपोषितं ततस्स्नातमार्द्रवाससमागतम् ।
ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥
प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
यस्य विस्फोटका न स्युश्शुद्धोऽसावन्यथाऽशुचिः ॥
इति । प्रदेशिनीं परीक्षेयुरिति वचनात् प्रदेशिन्यैव मुद्रिकोद्धारणम् । अत्र प्रयोगक्रमः--
धर्मावाहनादि शिरःपत्रान्तं सर्वदिव्यसाधारणं विधिं विधाय दह पावकेति घृतानुमन्त्रणमन्त्रेण प्राड्विवाको तैलं गव्यघृतं वाऽभिमन्त्र्य त्वमग्ने सर्वभूतानामिति मन्त्रेणाग्न्यभिमन्त्रणं-- कृतवतश्शोध्यस्य मुद्रिकातप्तमाषयोरुद्धरणान्ते प्रदेशिनीं परीक्ष