पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५४

पुटमेतत् सुपुष्टितम्
223
व्यवहारकाण्डः

कायिकादीनां स्वरूपमाह स एव--

 कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका ।
 वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता ॥
 प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता ।
 शिखेव वर्धते नित्यं शिरश्छेदान्निवर्तते ॥
 मूले दत्ते तथैवैषा शिखावृद्धिस्तथा स्मृता ।
 गृहात्तोषःफलं क्षेत्राद्भोगलाभः प्रकीर्तितः ॥

इति । गृहात्तोष इत्यनेन निवासनिबन्धनो गृहसकाशात्सन्तोषः । क्षेत्रात्संभूतधान्यादिफलं च भोगलाभाख्या वृद्धिरिति । 'प्रत्यहं गृह्यते' इत्यनेन संप्रतिपन्नदिनसंख्याविशिष्टवृद्धिग्रहणाल्लाभोदर्शितः । तथा च कात्यायनः--

 एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् ।
 प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता ॥

ऋणिना स्वेच्छया कृता वृद्धिः कारिता । स्वार्थे णिच् । अत एव परप्रेरणया तु कारिता वृद्धिः निषिद्धैवेति चन्द्रिकाकारः । तथा च कात्यायनः--

 ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता ।
 आपत्कालकृता नित्यं दातव्या कारिता तु सा ॥
 अन्यथा कारिता वृद्धिर्न दातव्या कथंचन ।

इति । अयमत्र निष्कर्षः-- वृद्धिर्द्विविधा-- कृता कारिता चेति । कृता तूत्तमर्णाधमर्णाभ्या । सा च कायिकादिभेदात् षड्विधा । कारिता तु आपत्कालकृता उत्तमर्णाधमर्णव्यतिरिक्तैर्मध्यस्थैरनापत्कालेऽपि मध्यस्थैःकृता एवं कारितवृद्धिद्वये अनापत्का