पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५५

पुटमेतत् सुपुष्टितम्
224
श्रीसरस्वतीविलासे

लकृता निषिद्धा । अधर्म्या-- न ग्रहीतव्येत्यर्थः ।

 कायिकां भोगवृद्धिं च कारितां च शिखात्मिकाम् ।
 चतुष्टयीं वृद्धिमाहुश्चक्रवृद्ध्या तु पञ्चमीम् ॥

इति बृहस्पतिवचनस्य तात्पर्यमिति मन्तव्यम् । वृद्धेरपि प्रतिमासं मूलभावेन पुनर्वृद्धिश्चक्रवृद्धिः । मासग्राह्या-- प्रतिमासं लभ्या वृद्धिः कालिका । अश्वमहिषीदास्यादीनधिकृतस्य वाहनदोहनादिकायिकव्यापार एव यत्र वृद्धित्वेन कल्पितः सा कायिकेति । पश्वादिद्रव्यस्य तु वृद्ध्यर्थं प्रयुक्तस्य तदीया सन्ततिरेव वृद्धिरित्याह याज्ञवल्क्यः-- सन्ततिस्तु पशुस्त्रीणामिति । स्त्रियो-- दास्यः । सन्तत्यभावे तु प्रयुक्तस्य पश्वादेः पुष्टिरनाशो वा लाभः । क्षीरार्थिनां परिचर्यार्थिनामित्यर्थः । अधमर्णविशेषे प्रतिमासं वृद्धेः परिमाणान्तरमाह स एव--

 कान्तारगास्तु शतकं सामुद्रा विंशकं शतम् ।
 दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥

कान्तारमरण्यं गच्छन्तीति कान्तारगाः । समुद्रं गच्छन्तीति सामुद्राः । तेभ्यो दशकं शतं विंशकं शतं च धर्म्यं भवति मासिमासीत्यनुषज्यते । कारितायां वृद्धौ सर्वे ब्राह्मणादयः । अयमर्थः-- कान्तारगन्तृभ्यो दशकं शतं । समुद्रगन्तृभ्यो विंशतिकं शतमुत्तमर्ण आदद्यात् । मूल्यविनाशस्यापि शङ्कितत्वादिति । क्वचिदकृताऽपि वृद्धिर्भवति । यथाऽऽह नारदः--

 न वृद्धिःप्रीतिदत्तानां स्यादनाकारिता क्वचित् ।
 अनाकारितमप्यूर्ध्यं वत्सरार्धाद्विवर्धते ॥