पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६०

पुटमेतत् सुपुष्टितम्
229
व्यवहारकाण्डः

चर्म-- बाणादि निवारकः-- फलकः । वर्म-- कवचं । पुष्पफलयोस्तु वृद्ध्यनिवृत्तिः प्रतिदानवेळायामत्यन्तासमृद्धाधमर्णविषये वेदितव्या । अन्यथा पूर्वोक्तवचनव्याकोपप्रसङ्गापत्तेः । विष्णुरपि--

 किण्वकार्पासमात्रचर्मवर्मायुधेष्टकाङ्गाराणामक्षया ।

इति । अत्र कार्पासस्य षड्गुणाभिधायकवचनविरोधः पूर्ववत्पारिहार्यः । वसिष्ठोऽपि--

 दन्तचर्मास्थिशृङ्गाणां मृन्मयानां तथैव च ।
 अक्षया वृद्धिरेतेषां पुष्पमूलफलस्य च ॥

मनुस्तु क्वचित्प्रतिषेधमाह--

 नातिसांवत्सरीं वृद्धिं नचादृष्टां विनिर्हरेत् ।

इति । अदृष्टां धर्मशास्त्रेषु । षट्कं शतमित्येवमादीत्यर्थः । केचिददृष्टामित्येतत्पदमन्यथा वर्णयन्ति--

 हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा ।
 घृतस्याष्टगुणा वृद्धिस्ताम्रादीनां चतुर्गुणा ॥
 तैलानां षड्गुणा वृद्धिस्स्त्रीपशूनां तु सन्ततिः ।
 चतुर्गुणा स्यात्कोशानां कार्पासस्य चतुर्गुणा ॥
 काष्ठानां चन्दनादीनां वृद्धिरष्टगुणा भवेत् ।
 एवं वृद्धिविधिः प्रोक्ता नास्ति वृद्धिस्ततःपरा ॥
 न वृद्धेर्वृद्धिरस्तीति धर्मकारानुशासनम् ।
 न चान्यसंश्रिता वृद्धिरिति वृद्धेश्च कर्हिचित् ॥

इत्यत्र वृद्धिसंश्रितवृद्धीनां शास्त्रनिषेधात् शास्त्रादृष्टत्वमिति ॥ अत्र चन्दनादीनामित्यादिशब्दस्तु गन्धमात्रोपलक्षकः । ताम्रादीना