पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८२

पुटमेतत् सुपुष्टितम्
251
व्यवहारकाण्डः

इति । तत्र विशेषमाह हारीतः--

 सर्वे प्रतिभुवो दाप्याः प्रातिभाव्ये प्रपोषिते ।

अयमर्थः-- चतुर्विधे प्रातिभाव्ये मिथ्याभूते सति तद्धनं राज्ञा धनिने दाप्याः प्रतिभुव इति वचनार्थः पूर्वमेवोक्त इति नेह प्रपञ्चितः । तदयमत्र निष्कर्षः-- ऋणादानसमये विश्वासार्थं बन्धकं लग्नको वा कार्यः । अत्र बन्धकं गोप्याधिर्भोग्याधिश्चेति द्विविधं । तत्र भोग्याधिर्द्वैगुण्यनिबन्धनः कालकृतश्चेति द्विविधः । कालकृतस्सवृद्धिकोऽवृद्धिकश्चेति द्विविधः । भोग्याधिस्तु सप्रत्ययोऽप्रत्ययः क्षयाधिरन्वाधिश्चेति चतुर्विधः । तत्र गोप्याधिर्यदि भुज्यते तदा न वृद्धिः । अतिभूक्तौ मूलनाशः । ऋणापर्याप्तं चेदपि मूलनाश एव ऋणिकेन वाऽवशिष्टं दातव्यं । अधिकं द्विगुणं गृहीत्वा अवशिष्टं ऋणिने तदभावे तद्ज्ञातिषु द्वैगुण्यधनं दातव्यम् । द्विगुणादूर्ध्वमेव धनं दत्वा आधिर्मोक्तव्यः । क्षयाधौ तु द्विगुणे धने तच्छुद्धभोगात्प्राप्ते तदाऽऽधिर्मोक्तव्यः । कालकृते द्विविधे काले प्राप्ते आधिर्मोक्तव्यः । भोग्याधावतिभुक्तौ भुक्तानुसारेण धनं दापयेत् ॥ अन्वाधिस्तु गृहीतसमधनस्यैव । तदधिके तु न सिध्यति । सर्वं पारिभाषिकं चेत् सिद्धत्येव । क्रियान्तगोप्याधौ तु दृश्यसमकालमेवाधिस्सिध्यति पारिभाषिकत्वादिति तन्मतं दूषितमधस्तात् । (संकरादयस्तु) संस्कारादयस्तु परिभाषावशादेव सिद्धाः । लग्नकोऽपि विश्वासप्रतिभूर्विश्वासापनये धनं दाप्यः । दर्शनप्रतिभूस्तु तदभावे धनं दाप्यः । उभयोस्तु देशान्तरगतयोः मृतयोर्वा तत्पुत्रेण तद्धनं मूलमात्रमेव दातव्यं । दानप्रतिभुवा ऋणिके