पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९४

पुटमेतत् सुपुष्टितम्
263
व्यवहारकाण्डः

ऋजुमार्गेण व्याख्याने सिद्धे वक्रमार्गानुसरणं हेयं । कात्यायनस्तु विशेषमाह--

बालपुत्रादिकर्ता च त्रातारं याऽन्यमाश्रिताः ।
आश्रितस्तदृणं दद्यात् बालपुत्रादिविश्रुतम् ॥

दद्यात्-- दापयेदित्यर्थः । एतदपि स्पष्टार्थमुक्तम् । पतिऋणापाकरणे पत्न्याश्चाधिकारात् बालानामनधिकारश्चेति । अत्र बृहस्पतिः--

पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।
यद्गृहीतं कुटुम्बार्थे तद्ग्राही दातुमर्हति ॥

तथाच कात्यायनः--

प्रोषितस्य मृते वाऽपि कुटुम्बार्थमृणं कृतम् ।
दातुस्स्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ॥

नारदोऽपि--

पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री याऽन्यमाश्रयेत् ।
तस्या द्रव्यं (धनं) हरेत्सर्वं निस्वायाःपुत्र एव तु ॥
उपप्लवनिमित्तं च विद्यादापत्कृतं तु तत् ।
कन्यावैवाहिकं चैव प्रेतकार्यं तु यत्कृतम् ॥
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ।
कुटुम्बार्थमशक्ते तु गृहीतं व्याधितेन वा ॥

कुटुम्बभरणाशक्ते कुटुम्भिनि सति प्रभोर्देयमित्यर्थः । एतच्च प्रतिश्रुतानुमोदितविषयम्--

देयं प्रतिश्रुतं यत्स्याद्यच्च स्यादनुमोदितम् ।

इति कात्यायनस्मरणात् । अत्र स्त्रियास्तु विशेषमाह कात्यायनः--

मर्तुकामेन या भर्त्रा उक्ता देयमृणं त्वया ।
अप्रसन्नाऽपि सा दाप्या धनं यद्याश्रितं स्त्रिया ॥