पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३११

पुटमेतत् सुपुष्टितम्
280
सरस्वतीविलासे

क्ष्मीधरप्रभृतयः-- 'विश्वजिति सर्वस्वं दद्यात्' 'न केसरिणो दद्यात्' इति केसरिदाननिषेधस्सर्वस्वदानं निषेधतीति । अत्र केचित्-- 'विश्वजिति सर्वस्वं' इत्यत्र सर्वशब्दः केसरिव्यतिरिक्तसर्वपरः । अत्र स्वशब्दस्यात्मीयवाचितया आत्मीयादीनां पुत्रादीनामदेयेत्वादेव स्वत्वनिवृत्तेरभावादित्याहुः । तन्न, सर्वस्वं दद्यादिति विधिः निषेधशिरस्को भवत्येव सर्वस्वदानं विधातुमित्याहुराचार्याः । सर्वस्वदक्षिणाविधयस्त्वदेयद्रव्यव्यतिरिक्तविषयाः । पुत्रदारादौ तु आर्ज्यार्जकभावसम्बन्धरूपस्य स्वत्वस्य विद्यमानत्वात् । पुत्रदारादिकं स्वमेव । तच्च महापातकादिना निवर्तत इत्युक्तं प्राक् । अतश्च सर्वशब्दःसंकुचद्वृत्तिर्न भवति । अत एव औदुम्बरी सर्वा वेष्टयितव्येत्यत्र सर्वशब्दः संकुचद्वृत्तिर्न भवतीति प्रतिपादितं गुरुणा । राज्ञा सर्वस्वहरणं साहसेषु विहितं । बलात्कारेण गृहीतेऽपि द्रव्ये स्वत्वमुत्पद्यते । किंच न तत्प्रदानं; अपितु दण्ड्यतया सर्वस्वग्रहणं । प्रकृते तु दानविचारो दानविषय इति तत्रास्माकमनास्था । किंच--

अन्वाहितं याचितकमाधिस्साधारणं च यत् ।
निक्षेपः पुत्रदाराश्च सर्वस्वं चान्वये सति ॥
आपत्स्वपि च कष्टासु वर्तमानेन देहिना ।
अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥

इति नारदवचनबृहस्पतिवचनयोरानुरूप्याय 'सामान्यं पुत्रदारादि' इत्यादिबृहस्पतिवचने 'आपद्यपि विरक्ता' इति वचने च अन्वये सतीति विशेषणमङ्गीकर्तव्यं । अन्वये-- वंशपरम्पराया बीजभूते वस्तुनि विद्यमाने न सर्वस्वदानं कर्तव्यमिति । विरक्ता