पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१२

पुटमेतत् सुपुष्टितम्
281
व्यवहारकाण्डः

निमपि सन्ततिसद्भावे सर्वस्वदानं नेष्य (न युज्य) त एव । निषेधविधयस्तु ससन्ततिकस्यैव सर्वस्वदाननिषेधपरा इति चेत्, सत्यं । चन्द्रिकाकारकुलार्कविज्ञानयोगिप्रभृतीनां मतमेतत् । लक्ष्मीधरादयस्तु अदेयद्रव्यत्यागे वाचनिको निषेधः । न तु नैयायिकः । अन्यथा प्रायश्चित्तविधानं दण्डविधानं व्याहन्येत । तथाच पितामहः--

यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ।

इति । शङ्खोऽपि--

अदेयं दत्वा तत्परावर्त्य त्रिरात्रमुपवसेत् ।

इति प्रायश्चित्तं स्मृतवान् ।

गृह्णात्यदत्तं यो मोहाद्यश्चादेयं प्रयच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीभुजा ॥

अदत्तग्रहणमदेयस्याप्युपलक्षणार्थं । तेनादत्तप्रतिग्रहीतुरदेयप्रतिग्रहीतुश्च दण्डोऽनेकवचनोक्त इति मन्तव्यं । गृहीतस्या परावर्तनमपि महीक्षिता कार्यमिति अदत्तादेयग्रहणात् गम्यते । अदत्तेनादेयेन च दानसिद्धेरभावात्परस्वत्वानुत्पत्तेरित्याह चन्द्रिकाकारः । ततश्च वैधोऽयं सर्वस्वत्यागनिषेध इति लक्ष्मीधरादीनां मतमेव सम्यक् । ननु सामान्यादिद्रव्यस्वामिनोऽनुज्ञाते दातुं युक्तमित्युक्तं प्राक् ? तन्न, लक्ष्मीधरादिमते मूलस्वामिन एव तत्राधिकारो न तदनुज्ञामात्रेणेतरस्येति ध्येयं । लोकेकुत्ताख्यो व्यवहारः मूलस्वामिनस्सकाशाद्गृहक्षेत्रादिकं गृहीत्वा तदुपचयापचयौ कौत्तिकस्य म(मै)यैव सोढव्याविति पारिभाषिकस्समस्ति । अपरश्च कुत्ताख्यो मूलस्वामिनः और्ध्वदैहिकं तत्कृ

S.VILASA
36