अतश्च स्वामिने निवेदनीयं अन्यथा पालकः किल्बिषी भवेदिति गम्यते । एतदेव स्पष्टयितुमाह स एव--
स्याच्चेद्गोव्यसनं गोपो व्यायच्छेत्तत्र शक्तितः ।
अशक्तस्तूर्णमागत्य स्वामिने वा निवेदयेत् ॥
अन्यथा करणे विष्णुः-- द्रव्यं विनष्टं चेद्विनष्टपशुमूल्यं स्वामिने दद्यात् । दिवापशूनां वृकाद्युपघाते पाले त्वपालयति पालदोष इति । दिवाग्रहणाद्रात्रौ न दोष इति गम्यते । यथाऽऽह मनुः--
अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।
यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥
यां व्यक्तिमित्यर्थः । अनायति-- अप्रयतमाने उदासीने इत्यर्थः । यद्वा अनायति-- अधावति । यत्तु नारदोक्तं--
तासां चेदवरुद्धानां चरन्तीनां मिथो वने ।
यामुपेत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥
असमर्थविषयमेतत् । पशुपालकशुद्ध्यशुद्धिविषयमाह विष्णुः-- 'पशुषु विनष्टेषु तद्रालशृङ्गादिदर्शनात् शुध्यति' इति । बालादिकं हृ(मृ)तपश्ववयवभूतं अरण्ये पश्वपहारशङ्कानिवृत्त्यर्थ पालको दर्शयेदित्यर्थः । तच्च लिङ्गदर्शनं सर्वभृतकानामुपलक्षणं । तथा च विष्णुः--
'भृतकविनाशे भृतकं वा तच्छिष्टं वा राज्ञे निवेदयेत्' इति । राजग्रहणाद्राजभृतकविषयमेतत् ॥
इति श्रीप्रतापरुद्रमहादेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे वेतनानपा-
कर्माख्यस्य पदस्य विलासः