पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३७

पुटमेतत् सुपुष्टितम्
306
श्रीसरस्वतीविलासे

आधिक्रयदानेभ्यः प्रागेवा स्वामिहस्ते दृष्टं नष्टं अपहृतं स्वकीयं द्रव्यमस्वामिनस्सकाशात् स्वामी गृह्णीयादिति दण्डापूपन्यायादनेन वचनेन गम्यते । तत्र विशेषमाह विष्णुः--

 अज्ञानतः प्रकाशं यः परद्रव्यं विक्रीणीते तत्र तस्यादोषः । स्वामी तद्द्रव्यमवाप्नुयादिति । अज्ञानतः-- विक्रेतुरस्वामित्वाज्ञानतः । तत्र परद्रव्य (क्रये) विषये तस्य क्रेतुरदोषः-- तस्कर दोषो नास्तीत्यर्थः । विक्रेतुस्तु तद्दोषोऽस्तीति गम्यते । स तु तस्करवद्दण्ड्यः । न पुनः क्रेता प्रकाशमित्यनेन रहसि लोभात्परद्रव्यमिति ज्ञात्वा क्रीणाति तत्र क्रेतुरपि तस्करदोषोऽस्ति । तथाच स्मृतिः-- यद्यप्रकाशं प्रकाशं वा हीनमूल्यं विक्रीणीयात्तदा क्रेता विक्रेता च चोरवत् शास्यौ इति । अत्र बृहस्पतिः--

अन्तर्गृहे बहिर्ग्रामान्निशायामसतो जनात् ।
हीनमूल्यं च यत्क्रीतं ज्ञेयोऽसावुपधिक्रयः ॥

असतो जनात्-- चण्डालादिजनादित्यर्थः । केचिदसद्ग्रहणं अस्वामित्वज्ञापकदासत्वादीनामुपलक्षणार्थत्वात् कितवादिपरमित्याहुः । उपधिक्रयस्तु तेन दोषोपादक इत्याह स एव--

येन क्रीतं तु मूल्येन तत्प्राग्राज्ञे निवेदितम् ।
न तत्र विद्यते दोषस्स्तेनस्स्यादुपधिक्रयात् ॥

स्तेनः-- चोरः । चोरवच्छास्य इत्यर्थः । अत्र कात्यायनः--

नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातिभिस्स्वकम् ।

इति । नाष्टिको-- नष्टधनवान् । नष्टं स्वकीयं धनं ज्ञातिभिः साक्षिभूतैः प्रकुर्वीत साधयेदित्यर्थः । क्रेतारं प्रत्याह बृहस्पतिः--

पूर्वस्वामी तु तद्द्रव्यं यदागत्य विचारयेत् ।