पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५८

पुटमेतत् सुपुष्टितम्
327
व्यवहारकाण्डः

स्वल्पमूल्यात्क्रयसिद्धौ विशेषमाह कात्यायनः--

मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् ।
चक्रवृद्ध्या प्रदातव्यं देयं तत्समयादृते ॥

एतावता कालेन दास्यामीति समयादृते याच्यमानमदत्तं चक्रवृद्ध्या वर्धते । समयकरणे तस्मिन् काले पूर्वदत्तशेषं देयं । तस्मिन्नपि काले याच्यमानं न दत्तं चेच्चक्रवृद्ध्या वर्धत एवेति ध्येयम् ॥

इति श्रीप्रतापरुद्रमहादेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे क्रीत्वानुश-
याख्यस्य पदस्य विलासः