पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७

पुटमेतत् सुपुष्टितम्
6
श्रीसरस्वतीविलासे

जम्भद्विट्कुम्भिकुम्भद्वयसचिवशचीचारुवक्षोजकुम्भ
व्यक्तव्यक्तानुषक्तप्रसृमरमसृणक्षोदकर्पूरगौरः ।
यत्कीर्तेः कार्तिकीन्दुप्रहसनरसिकप्रौढकर्णाटकान्ता
कान्ता कान्ताननेन्दुस्फुरितरतिकलाहासभासां विलासः ॥ १२

चोळ[१]द्राविडनेपाळपाण्ड्य[२]मालवकेरळाः ।
कपिलेन्द्रनृपे क्रुद्धे युद्धे कर्णाट[३]कीर्तयः ॥ १३ ॥

सा पार्वती नाम यथार्यनाम्नी
याऽवाप सापत्न्यमिळारमाभ्याम् ।
करं गृहीत्वा कपिलेश्वरस्य
सा गामसापत्न्यवतीमतानीत् ॥ १४ ॥

सा पार्वती सकलगण्यगुणातिरेकं
भूपालमौळिमणिरञ्जितपादपीठम् ।
तस्मादसूत पुरुषोत्तमनामधेयं
विस्मारितारिधरणीश्वरभागधेयम् ॥ १५ ॥

वीरश्रीपुरुषोत्तमो गजपतिः विद्वत्सभाभ्यन्तरे
[४]शेषो विक्रमिणां कथासु नितरां शेषाहिभूषो विभुः ।
शत्रूणां गणनेऽहिकङ्कणसखः सौन्दर्यसीमा स्वयं
तत्पुत्रोयमिति प्रगल्भवचसामुत्प्रेक्षणीयोऽन्वहम् ॥ १६ ॥



  1. द्रविळ-- B.
  2. मागध-- A.
  3. कर्णादि-- B.
  4. शेषश्शेषविभूषणस्स्वयमयं वीराग्रणीस्संससदि।
    मित्रं शेषधरस्य दातृपरिषद्यस्यैव सूनोस्समा
    सौन्दर्यातिशयांशकीर्तिसमितौ सत्ये तु नैवापरः-- B.