पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७७

पुटमेतत् सुपुष्टितम्
346
श्रीसरस्वतीविलासे

सिद्धद्यर्थत्वात् कर्तृसंस्कारकत्वमेव । नाग्निसंस्कारकत्वं अहारणमात्रस्य मथनमात्रस्य वा संस्कारकत्वं वक्तुमयुक्तं 'मथितेनाग्निना श्रोत्रियागारादाहृतेन वा स्फटिकोत्पन्नेन वा दवानलेन वा विवाहः कार्यः' इति कर्कभाष्ये आहृतत्वमधितत्वयोः स्फटिकोत्पन्नत्वदावानलत्वाभ्यां तुल्ययोगक्षेमतया प्रतिपादनात् । न च स्फटिकोत्पन्नस्य स्फटिकोत्पत्तिरेव; दावानलस्य वा दावानलत्वमेव संस्कार इति वक्तुं युक्तं; अतो लौकिक एव-- वैवाहिकाग्निरिति । अत एवास्तम्बेन ।

 'अग्निनाशे श्रोत्रियागारान्मथनाद्वाऽग्निमाहृत्य उपोष्यायाश्चेति प्रायश्चित्तं कृत्वा पूर्ववज्जुहुयात्' इत्युक्तं । अनुगतोमन्थ्यः श्रोत्रियागारादाहृतो वाऽ याश्चेति हुत्वा जुहुयादिति । अग्निनाशेऽप्ययमेव विधिरिति वृत्तिकारः । अत एव संसृष्टानां पृथगग्निहोत्रकरणं च निषिद्धमिति यद्वचनं जातं तदुपपन्नं भवति । अयमर्थः-- विभागकाले आहृतस्याग्नेः पुत्राणां परस्परविभागः । वैवाहिकाग्नेरलौकिकत्वपक्षे 'भूर्भुवस्सुवरोमित्यग्निं प्रतिष्ठापयेदिति' विधेश्श्रौतातिदेशेन अलौकिकत्वमग्नेः । अत एवाविभागदशायामपि पृथगग्निहोत्रकरणपृथग्वैश्वदेवादिकरणविधय उपपन्ना भवन्तीति । पक्षद्वयप्रतिपादको वाशब्द इत्याहुः । अत एवाश्वलायनेन अग्निनाशे युगलोजान्तसंस्कारकलापं कृत्वा पुनर्जुहुयादित्युक्तं । 'श्रौतं वैतानिकाग्निषु' इति पृथगुक्तिः सर्वथा वैतानिकाग्नीनां विभागो नास्तीति ज्ञापनार्था । अत्राहुः-- वैवाहिकाग्नेरलौकिकत्वपक्षे परस्परं पृथगनुष्ठानमेव विभागः । लौकिकत्वपक्षे परस्परमग्निस्वीकरणमेव विभाग इति लक्ष्मीधर