पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८३

पुटमेतत् सुपुष्टितम्
352
श्रीसरस्वतीविलासे

इति । सा कथमित्यपेक्षिते नारदः--

भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेत्तेषां पृथक्पृथक् ॥

इति । धर्मः-- पितृदेवतार्चनादिजन्यः । तथा च बृहस्पतिः--

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे ॥

अतश्चाविभक्तानामपि स्वसाध्याग्निहोत्रादिजन्योधर्मः सम्पद्यत एव । किंतु विभागे सति धर्मवृद्धिर्गौतमादिमत (द्वय) त्वेनोक्तेत्यनुसंधेयं । अत्र समविभागपक्षस्य सार्वत्रिकत्वेनाभिधानाद(द्य)स्मिन् विषये यदि पिता स्वकीयेच्छया समविभागपक्षमङ्गीकुर्यात्तदापत्न्यः पुत्रवत्यः समानांशभाजः कार्या इत्याह याज्ञवल्क्यः--

 यदि कुर्यात्समानं (नां) शान् पत्न्यः कुर्यात्समांशकाः । यदि वार्धकेऽप्यात्मना सह समभागपक्षमिच्छया स्वपिता कुर्यात्तदा त्वात्मभागेन सह तत्समानभागं पत्नी प्रतिगृह्णीयादिति । अनेन 'जायापत्योर्न विभागो विद्यते' इति आपस्तम्बवचनं यत्र सहत्वचोदना त्तत्रैवेति मन्तव्यमिति भारुचिराह । अत एवाह याज्ञवल्क्यः--

भ्रातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यमृणं साक्ष्यमविभक्तेन तु स्मृतम् ॥

इति । अत्राह विज्ञानयोगी-- ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादि प्रतिषेधो न विद्यते । तयोर्विभागाभावेन विशेषानर्थक्यात् । विभागाभावस्त्वापस्तम्बेन दर्शितः । 'जायापत्योर्न