पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८५

पुटमेतत् सुपुष्टितम्
354
श्रीसरस्वतीविलासे

र्भागान्न्यूनं न कार्यं सममंशमधिकांशं वा दातव्यम् । 'यदि कुर्यात्' इति यदिशब्देन इच्छानुसारप्रतिपादनादैच्छिकत्वादंशदानस्येत्यवगन्तव्यमिति । अत्रेदं तत्वं-- भारुचिमते पत्नीनां बहुत्वसद्भावे तासामेव विभागः । विज्ञानयोगिप्रभृतीनां मते पत्न्येकनियतो विभागो नास्ति । किं तु पुत्रैस्समविभागः पत्नीनां । अपरार्कादीनां तु मते पत्नीविभागः पुत्रसमविभागश्च नास्ति । किंतु पतीच्छया देयमिति । अत्र पक्षत्रये वर्णतो व्यवस्थामाहुर्भाष्यकाराः-- 'ब्राह्मणीनां पत्नीनां स्वपुत्रैः समविभागः । क्षत्रियाणां तु पत्नीविभागो नास्ति । न पुत्रसमविभागः किंतु पतीच्छया यत्किंचिद्देयमिति' वैश्यशूद्रयोः पत्नीविभागः । एतद्व्यवस्थायामाचार एव मूलमित्याहुः । अत्राहतुनश्शङ्क लिखितौ-- जीवति पितरि रिक्थविभागोऽनुमतः प्रकाशं वा मिथो वा धर्मत इति । यो जीवद्विभागपक्षोऽनुमतः स तावत्प्रकाशं बन्ध्वादिजनसमक्षं यथा भवति तथा मिथो वा रहसि धर्मतः-- धर्मप्रकारेण कार्य इत्यर्थः । तमेव प्रकारमाह कात्यायनः--

सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः ।
पितरौ भ्रातरश्चैव विभागो धर्म्य उच्यते ॥

धर्म्यो धर्मादनपेतः । 'मनुः पुत्रेभ्यो दायं व्यभजत्' इत्यविशेषेण समविभागश्रुतेः । विषमविभागश्च शास्त्रदृष्टोऽपि लोकविरोधाच्छुत्यन्तरविरोधाच्च नानुष्ठेय इति समैर्भागैर्मध्यकद्रव्यं गृह्णन्तीति नियम्यते । अतश्चास्मिन् कलियुगे अननुष्ठेयत्वात् ज्येष्ठाद्युद्धारपक्षा न प्रतिपादिताः । तथाहि--

अस्वर्ग्यं लोकविद्विष्टं धर्ममप्या चरेन्न तु ।