पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८८

पुटमेतत् सुपुष्टितम्
357
व्यवहारकाण्डः

ननु कथं--

'यदि कुर्यात् समानंशान् पत्न्यः कार्यास्समांशकाः'

इत्यत्र स्त्रीणां दानानर्हत्वादंशशब्दोऽन्यथा व्याकृतः ।

कथं तर्हि याज्ञवल्क्येनोक्तं--

पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेत् ।

इति । कथं च व्यासेन--

असुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
पितामह्यश्च सर्वास्ताः मातृतुल्याः प्रकीर्तिताः ॥

इति । कथं च विष्णुना--

 'मातरः पुत्रभागानुसा(रि)रेण भागहारिण्यः अनूढाश्च दुहितरः' इति । तर्हि स्त्रीणां दायानर्हत्वे मात्रादीनां दुहित्रन्तानामंशहारित्वोक्तिर्न युज्यते, मैवं, अत्र अंशशब्दो न दायभागवचनः । अपि तु द्रव्यसमुदायप्रतीकमात्रवचनः । अतश्च नोक्तदोष इति केचित् । अत्र मात्रादिशब्दानां गुरुरूपस्त्रीविशेषपरत्वादजीवद्विभागे माताऽप्यंशं दायभागं हरेदित्यन्ये । मेधातिथिमतं तु वर्णव्यवस्थया पूर्वमेवोक्तं । अथ भ्रातॄणां दायविभागो याश्चानपत्यास्स्त्रियः तासामापुत्रलाभात् इति वसिष्ठः । अस्यार्थः-- याः पितुः स्त्रियो अनपत्याः गर्भस्थापत्याः तासामापुत्रलाभात्-- आप्रसवात् सहवासेन स्थितानां भ्रातॄणां प्रसूतापत्यलिङ्गज्ञानानन्तरं दायविभाग इति । नन्वत्र भ्रतॄणामनपत्यस्त्रीणां च दायविभागो भवतीति ऋज्वर्थः किमिति परित्यज्यते, उच्यते, अनपत्यस्त्रीणामापुत्रलाभादिति विरुद्धार्थप्रतीतेः ; स्त्रीणां दायानर्हाणां दायविभागासंभवाच्च परित्यज्यते । अत एव स्मृत्यन्तरं--