पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९९

पुटमेतत् सुपुष्टितम्
368
श्रीसरस्वतीविलासे

त्यस्यार्थो मनुना स्पष्टीकृतः । तथाहि--

अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् ।

श्रमेण-- श्रमजनितकृष्यादिनेति यावत् । पितृद्रव्यमित्यत्र पितृग्रहणमविभक्तोपलणार्थं । अनुपघ्नन्-- अपीडयन् । व्यासोऽपि--

अनाश्रित्य पितृद्रव्यं स्वशक्त्याऽप्नोति यद्धनम् ।
दायादेभ्यो न तद्दद्यात् ।

इति प्राह । प्रजापतिरपि--

विद्याशौर्यश्रमैर्लब्धं स्त्रीधनं माधुपर्किकम् ।
मैत्रमौद्वाहिकं चैव भ्रातृभिर्न विभज्यते ॥

इति । विद्यया-- वेदाध्ययनेन अध्यापनेन वा वेदार्थव्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात् । आर्जक एव गृह्णीयात् । एवंविधेषु स्थलेषु द्रव्यस्यैकनिष्ठत्वेऽपि विभक्तत्वमस्तीति भारुचिना प्रागेव प्रपञ्चितं । विद्याधनस्वरूपमाह कात्यायनः--

उपन्यस्य तु यल्लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद्विद्याद्विभागे न नियुज्यते ॥
शिष्यादार्त्विज्यतः प्रश्नात्सन्दिग्धप्रश्ननिर्णयात् ।
सुज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ॥
विद्याधनं तु तत्प्राहुः विभागे न नियुज्यते ।
परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् ॥
विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः
विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् ।
ऋत्विजा येन यल्लब्धमेतद्विद्याधनं भृगुः ॥

प्राध्ययनं-- घटिकाशतकादि निर्माणं । धनं विनाध्ययनं (अन्न