पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१४

पुटमेतत् सुपुष्टितम्
383
व्यवहारकाण्डः

इत्यत्र उक्तत्वात्, अतः स्वमातृधनं मातरि वृत्तायां दुहितरो गृह्णन्ति । तत्र चोढानूढासमुदाये अनूडा गृह्णाति । तदभावे परिणीता । तत्रापि प्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । एतद्विज्ञानेश्वरमतं भारुच्यपरार्कचन्द्रिकाकारादयो न मन्यन्ते । विज्ञानेश्वरेण स्वमतिमात्रपरिकल्पितत्वात् । अनेकाध्याहारपरिकल्पितत्वाच्च । गौतमवचने च 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां चेति सामान्येनाभिधानाच्चेति । एतच्च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणामेव 'भगिनी शुल्कं सोदर्याणामूर्ध्वं मातुः' इति गौतमवचनात् । मातुरूर्ध्वमित्यन्वयः । सर्वासां दुहितॄणां अभावे दुहितुर्दुहितरो गृह्नन्ति । 'दुहितॄणां प्रसूता चेत्' इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागकल्पना 'प्रतिमातृ स्वभाव' इति गौतमस्मरणात् । स्वभावः-- स्वत्वं । प्रतिमातृ-- मातरं मातरं मातृस्वत्वानुसारि तासां स्वत्वमित्यर्थः । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराऽप्युत्तमजातिस्त्रीदुहिता गृह्णाति । तदभावे तदपत्यम् । तथा च मनुः--

स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथं चन ।
ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥

इति । ब्राह्मणीग्रहणं उत्तमजात्युपलक्षणमिति विज्ञानेशः । अतश्च अनपत्यवैश्याधनं क्षत्रियकन्या गृह्णाति । दुहितॄणां पुत्राणां च मातृधनसम्बन्धात् । तथा च मनुः--

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥

इति । मातृकं रिक्तं सर्वे सहोदराः समं भजेरन् । सनाभयो