पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१५

पुटमेतत् सुपुष्टितम्
384
श्रीसरस्वतीविलासे

भगिन्यश्च समं भजेरन्निति संबन्धः । न पुनः सहोदरा भगिन्यश्च संभूय समं विभजेरन् इति । पूर्वोक्तक्रमप्रतिपादकवचनविरोधात् । विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेश्च । यथा देवदत्तः पचतु यज्ञदत्तश्चेति । समग्रहणमुद्धारनिवृत्त्यर्थं । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थं । अत एव विष्णुः 'भगिनीशुल्कं मातुः सोदराणामेवेति । अयमर्थः-- भगिनीशुल्कात्मकं स्त्रीधनं मातुरेव । मातुरभावे सोदराणामेव न भिन्नोदराणामित्यर्थः । यत्तु गौतमसूत्रम्-- 'भगिनीशुल्कं सोदराणामूर्ध्वं मातुरिति' तत् मातुरूर्ध्वं सोदराणामित्यन्वयपरं । तथाऽऽह बोधायनः--

 'स्त्रीधनं मातृगामि तदभावे सोदरभ्रातृगामीति' स्त्रीधनंकन्याशुल्कं । अतश्च कन्याशुल्कविषयसोदरासोदरविभागे सोदराणामपि किञ्चिद्देयमित्यसहायव्याख्यानमसहायं । भगिनीशुल्कं सोदराणां 'ऊर्ध्वं मातुः' इत्यादिषु स्मृतिषु भगिनीशुल्करूपे सर्वस्मिन् धने सोदराणामेव स्वाम्यप्रतिपादनात् । पुत्राणामभावे पौत्राः पितामहधनहारिण' इति वचो भङ्ग्याऽऽह गौतमः-- 'ऋणप्रदातारश्च रिक्थभाजः ऋणं प्रतिकुर्युः' इति । 'पुत्रपोत्रैः ऋणं देयमिति' पौत्राणामपि पितामह्यृणापाकरणे अधिकारात् । नन्वेवं 'मातामह्यां वृत्तायां तदौर्ध्वदैहिके दौहित्रस्यैवाधिकारात् पुत्रपौत्रद्रव्यसमुदायेनैव और्ध्वदैहिकक्रियां कुर्युरिति' विष्णुवचनविरोधस्स्यादिति चेन्मैवं । षोडशश्राद्धेष्वेव पुत्रपौत्रधनसंसर्गः; तत्प्रेतत्वनिवृत्तेरुभयाकाङ्क्षितत्वादिति भारुचिना विषयव्यवस्थायाः कृतत्वात् । पौत्राणामप्यभावे विभागक्रममाह याज्ञवल्क्यः--

अतीतायामप्रजसि बान्धवाः तदवाप्नुयुः ।