पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१९

पुटमेतत् सुपुष्टितम्
388
श्रीसरस्वतीविलासे

पिण्डदाता च । परक्षेत्र इत्यस्यायमर्थः-- परस्य क्षेत्रं भार्या । तस्याः परक्षेत्रत्वं वाग्दानमात्रेण । न तु परिणयनेन । परिणीतपरक्षेत्रे नियोगस्य निषिद्धत्वात् । तथा हि मनुः--

देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया ।
प्रजेप्सिताऽभिगन्तव्या सन्तानस्य परिक्षये ॥

इति--

विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकमुत्पादयेत्पुत्रं न द्वितीयं कथं च न ॥

इत्येवं नियोगमुपन्यस्य स्वयमेव निषेधति--

नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन्विनियुञ्जाना धर्मं हन्युस्सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधावुक्तं विधवावेदनं पुनः ॥
अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणामपि प्रोक्तो वैने राज्यं प्रशासति ॥
स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ।
नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः ॥

इति । न हि विहितप्रतिषिद्धत्वाद्विकल्पः । नियोक्तॄणां निन्दाश्रवणात् । स्त्रीधर्मे व्यभिचारस्य बहुदोषश्रवणात् । संयमस्य प्रशस्ततरत्वाच्च । यथाऽऽह मनुरेव--

कामं तु क्षपयेद्देहं पुष्पमूलफलाशनैः ।
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥