पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३

पुटमेतत् सुपुष्टितम्
12
श्रीसरस्वतीविलासे

कवाक्यतापर्यालोचनवशायाततत्क्लेशो माभूदिति सकलस्मृति समुच्चयमतिगम्भीरं नातिविस्तृतं प्रबन्धं प्रस्तौति--

अत्रेत्थं गमनिका--

अमा ननु मुनीश्वरा मनुवसिष्ठयोगीश्वरा
निवन्धनकृतोऽपि भारुचिकुलार्कयोगीश्वराः ।

गता विगतमत्सरा भवतु वी भवानीपतिः ।
स तुष्यतुतरां मम स्मृतिनिबन्धवाग्व्वैखरीम् ॥

हीने गर्वमहो नैव नैव गर्वमहोऽधिके ।
समे तु गर्वं शङ्केत न समस्ति समस्तु नः ॥


इति वीरश्री गजपतिगौडेश्वर नवकोटिकर्णाटकलुवरिगेश्वर
शरणागतयमुनापुराधीश्वर हुशनसाहिसुरत्राणशरणरक्षण
श्रीदुर्गावरपुत्र पवित्र चरित्रराजाधिराजराजपर-
मेश्वर श्री प्रतापरुद्रदेव महाराजविरचिते
स्मृतिसङ्ग्रहे सरस्वतीविलासे
प्रबन्धृवंशावतरणं नाम
प्रथमो विलासः