पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३२

पुटमेतत् सुपुष्टितम्
401
व्यवहारकाण्डः

काचिदनुपपत्तिः । नन्वेवं भवनाथेनोपनीयाध्यापनेनाचार्यकं भावयेदिति वचनव्यक्तिरुपन्यस्तेति चेत् । भवनाथस्यायमभिप्रायः-- यद्यपि तददृष्टं क्रियाफलं लिङर्थ एवेत्युपनीयाध्यापयेदित्येवं रूपैव पारमार्थकी वचनव्यक्तिः । तथाऽपि तस्यादृष्टस्याचार्यकपदाभिलप्यतया स्मृतिसिद्धत्वात्तेन च रूपेण वरदानादिलाभकरतयाऽध्यापकाभीष्टत्वाद् काम्यतयैवार्थात्स्वविषयेऽध्यापने अधिकारापादकता । न नित्यादिनियोगवन्नियोगत्वेनैवेति प्रकटयितुमध्यापनस्यौपादानिककरणान्वयविवरणार्था वचनव्यक्तिः अध्यापनेनाचार्यकं भावयेदित्येवंरूपोपन्यस्ता । अत एवेदृशीं वचनव्यक्तिमुपन्यस्याह शा(रि)लिकानाथः-- 'अर्थादाचार्यीबुभूषोरधिकार' इति । आर्थिकमधिकारलाभं प्रकटयितुमेव तदनुगुणा वचनव्यक्तिरुपन्यस्तेत्यभिप्रायः । नन्वेवं वरदानविध्यपेक्षिताचार्यकोत्पत्त्यर्थक्रियाविनियोगपरत्वाद्वाक्यस्य एतद्विध्यनुवादता लिङः प्राप्नोतीत्याचायकस्य लिङ्वाच्यत्वमभिमतं न सिध्येत् । यद्यपि सन्निधिसमाम्नानाभावान्न ग्राहकावस्थविध्यनुवादता; तथाऽप्याधानवाक्यस्थलिङ्वत्प्रयोजकवस्थविध्यनुवादता स्यादेव । मैवं, आधानस्य हि संस्कारस्य ज्वलनगतत्वेन लिङ्वाच्यत्वासम्भवात् लिङः प्रयोजकापूर्वानुवादता स्वीकृता । अध्यापनजन्यस्य त्वाचार्यसंस्कारस्याध्यापयितृगतत्वेन लिङ्वाच्यत्वं संभवत्येवेति न लिङोऽनुवादकता स्वीकार्या ।

 नन्वेवमप्याचार्यकसंस्कारस्य साधिकारविद्ध्यनुप्रवेशित्वादृत्विक्संस्कारवल्लाभकरत्वेऽपि स्वयमधिकारापादकत्वासंभवात् नाध्यापनेऽपि प्रयोजकतेति अध्ययनप्रयोजकत्वमभिमतं दूरनिरस्तं

 S.VILASA.
51