पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३४

पुटमेतत् सुपुष्टितम्
403
व्यवहारकाण्डः

विभाग इति चन्द्रिकाकारः । विज्ञानेश्वरस्तु अप्रतिबन्धो दायो रिक्थं सप्रतिबन्धो दायस्संविभाग इति । रिक्थशब्दस्य यद्यपि सप्रतिबन्धोऽपि दायोऽर्थः 'रिक्थग्राह ऋणं दाप्य' इति दर्शनात् । तथाऽप्यप्रतिबन्धो दायो विवक्ष्यते । अन्यथा विभागशब्दपौनरुक्त्यात् । विभागशब्देन तदुत्तरकालीनः सप्रतिबन्धो दायो लक्ष्यते । विभागस्य स्वत्वहेतुत्वाभावादित्याह । एतन्न सहन्ते भारुच्यादयः-- अप्रतिबन्धे दाये संबन्धातिरिक्तं जन्मापेक्ष्यते; सप्रतिबन्धे दाये तु प्रतिबन्धाभावो न कारणं तुच्छत्वादिति । परिग्रहः-- काननादिगतजलतृणकाष्ठादेरन्येनास्वीकृतस्य स्वीकारः । अधिगमो निध्यदिरुपलब्धः । एतेषु पुत्रादिः क्रेता संविभक्ता परिग्रहीताऽधिगन्ता वा यथाक्रमेण पित्रादिधनस्य क्रीतस्य संविभक्तांशस्य परिगृहीतस्याधिगतस्य च स्वामी भवति । तथा लब्धं प्रतिगृहीतं ब्राह्मणस्याधिकं प्रातिस्विकमार्जनं । एवं क्षत्रियस्य विजितं जयलब्धं । एवं वैश्यस्य निर्विष्टं कृष्यादिभृतिरूपेण यल्लब्धं । शूद्रस्यापि निर्विष्टं द्विज शुश्रूषादिना वृत्तिरूपेण यल्लब्धं प्रातिस्विकमित्येवमर्जननिबन्धनार्थाया गौतमस्मृतेरर्थो विज्ञेयः । अतश्चेयं धर्मस्मृतिः साधुशब्दनिबन्धनार्थव्याकरणादिस्मृतिवत् स्मृतेत्यर्थः ।

 अत्रेदं तत्वं-- लोकप्रसिद्धानेव स्वत्वोपायान् प्रतिग्रहादीननूद्य ब्राह्मणादिवर्णोल्लेखेनादृष्टार्थतया नियन्तुं गौतमेन यत्नतो वचनमारब्धमिति । तथा च--

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥

इति । शास्त्रैकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणिज्या