पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४०

पुटमेतत् सुपुष्टितम्
409
व्यवहारकाण्डः

यत्किञ्चिदाध्यादि विविधं स्थावरजङ्गमात्मकं भर्तृस्वामिकं स्मृतं तत्सर्वं विभक्तविषये पत्नी लभत इत्यर्थः । विभक्तग्रहणादविभक्तविषये तु सहवासिन एव भ्रात्रादयो मृतस्यापुत्रस्य धनं लभेरन्निति गम्यते । एतत् पूर्वमेव सयुक्तिकमुक्तमप्यत्र ज्ञापितं । तज्जाया स्थावरं मुक्त्वेत्येतत् दुहितृरहितपत्नीविषयं । पत्नीमात्रविषयत्वे--

जङ्गमं स्थावरं हेमकुप्यधान्यरसाम्बरं ।
आदाय दापयेच्छ्राद्धं मामषाण्मासिकादिकम् ॥

इति पूर्वोक्तवचनविरोधस्स्यादिति चन्द्रिकाकारः । अत्र चन्द्रिकाकारस्यायमाशयः-- दुहितृरहितदुहितृसहितपत्न्योः सन्निपाते दुहितृसहिताया एव पत्न्याः स्थावरं; न दुहितृरहितायाः । दुहितृरहितायास्तु जङ्गमांशः; जङ्गमद्रव्ये यथांऽशस्वीकारः । यदा दुहितृरहितैव पत्नी स्यात्तदा तस्या एव स्थावरं जङ्गमं च नान्यस्याः दुहितृसहितायाः मात्रादेः । तस्यास्तु पत्न्यपेक्षया बहिरङ्गत्वस्योक्तत्वादिति । न च तद्विरोधपरिहाराय विभक्तपत्न्य शविषयं चेदं वचनमस्त्विति वाच्यं । यत एवं प्रकारां व्यवस्थां निराकर्तुमाह स एव--

वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरमर्हति ।

इति । सन्तानवृत्तिभूतस्थावरार्हता सन्तानशालित्वायत्तेति तच्छून्या स्त्री वृत्तस्थापि विभक्तविषयेऽपि स्थावरं नार्हतीति वचनार्थः ।

मृते भर्तरि भर्त्रंशं लभते कुलपालिका ।
यावज्जीवं हि तत्स्वाम्यं दानाधमनविक्रये ॥

S.VILASA.
52