पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५६

पुटमेतत् सुपुष्टितम्
425
व्यवहारकाण्डः

मातापितृगाम्येव न तत्पुत्रगामीति । तन्न सहन्ते वृद्धाः-- दौहित्रगामि धनं दौहित्राभावे तत्पुत्रगाम्येवेति त्रैविद्यवृद्धव्यवहारसिद्धं । अतश्च दुहितृगामि सत् दौहित्रमेव सङ्क्रान्तं तत्सुतसम्भवे तमेव कटाक्षीकरोति तद्रिक्थं । इयांस्तु विशेषः-- दौहित्रान्तानामभावे दौहित्रपुत्रं न सङ्क्रामति; किंतु ततोऽप्यन्तरङ्गत्वात् मातापितरावेवावलम्बते रिक्थं ।

 नन्वेवं दुहित्रभावे तत्सङ्क्रान्त्यभावाद्दौहित्रसङ्क्रान्तेर्मातापितृसङ्क्रान्तेरासन्नत्वादुहित्रनन्तरं मातापितरावेवावलम्बतामिति चेत्, मैवं । दौहित्रस्य मातापितृतोऽपि प्रत्यासत्तिरस्ति ।

अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः ॥

इति । विष्णुवचनम् ।

अकृता वा कृता वाऽपि यं विन्देत्सदृशं सुतम् ।
पौत्री मातामहस्तेन दद्यात्पिण्डं धनं हरेत् ॥

इति मनुवचनं । अत्राकृता वेति दृष्टान्तार्थं । कृतायाः पुत्रिकायाः सुतस्य पुत्रत्वेन अर्धांशभागित्वादप्रतिबन्धदायार्हत्वस्योक्तेः । यथाऽऽकृतायाः पुत्रेण मातामहः पौत्री तथा कृताया अपि पुत्रेणेति । अनेन--

कुर्यान्मातामहश्राद्धं नियमात्पुत्रिकासुतः ।

इत्यपि परास्तं । पुत्रिकासुतस्य पुत्रमध्ये पाठा(त्पत्नी)त्पौत्र एव पुत्रिकासुतशब्दवाच्य इति । अनयोर्मानववैष्णवयोः वचनयोः तात्पर्यवर्णने विवदन्ते वृद्धाः । दौहित्रस्य मातामहश्राद्धं सकारणमेव; पितृश्राद्धवन्निष्कारणं न भवतीति । तथाहि-- यत आददीत स तस्मै श्राद्धं कुर्यादिति विष्णुस्मरणात् ।

S.VILASA
54