पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६३

पुटमेतत् सुपुष्टितम्
432
श्रीसरस्वतीविलासे

विशेषमाह विष्णुः-- 'संसृष्टीनां पिण्डकृदंशहारीति' । अत्र भारुचिः पिण्डदोंऽशहरश्चैषामित्यत्र पिण्डदत्वमेवांशग्रहणे प्रयोजकमिति । अयं भावः-- पिण्डदोंऽशहरश्चैषामित्यत्र पाठक्रमादर्थक्रमो बली यानित्यंशहरत्वमेव पिण्डदत्वप्रयोजकमिति सकलस्मृतिसिद्धं । तथाऽप्यसंसृष्ठिस्थले पाक्षिकापचयभाराभ्युपगमसाहसशालित्वरूपन्यायस्य पिण्डदत्वरूपान्तरङ्गन्यायो बाधक इति प्रदर्शनमात्रपर इत्युक्तं । न तु वस्तुवृत्त्या पिण्डदत्वमंशग्रहणप्रयोजकमिति । अतोऽस्मिन् प्रकरणे संसृष्टिन्यायान्तरङ्गन्यायौ यथार्थं प्रवर्तेते । अतश्च क्वचित्संसृष्टिन्यायेन संसृष्टिन एव धनग्राहित्वं क्वचिदन्तरङ्गन्यायेनैवासंसृष्टिन एव धनग्राहित्वमुक्तं । एवं त्रैविध्येऽपि न पत्न्यादिर्धनग्राहीति प्रतिपदन्यायफलं सिद्धं । अतश्च संसृष्टिनोऽपुत्रस्यापितृकस्य धनं पितृव्यगाम्येवेति विष्णुवचनस्यार्थः । अत एवाह याज्ञवल्क्यः--

 'संसृष्टिनस्तु संसृष्टी' इति । यत्र पुनः पितृव्यसोदरौ संसृष्टौ तत्र संसृष्टिधनं सौदरगाम्येव । न पितृव्यगामीत्याह याज्ञल्क्यः-- 'सोदरस्य तु सोदर' इति । सोदरस्य संसृष्टस्यधनं सोदर एव गृह्णीयात् । संसृष्टिपितृव्यादिस्तु संसृष्टोऽपि न गृह्णीयात् । तस्यैव तत्पिण्डदानाधिकारादिति वचनार्थः । संसृष्टिनो मरणानन्तरं जातस्य पुत्रस्यैवांशो दातव्यः न ग्रहतिव्य इत्याह याज्ञवल्क्यः--

दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ।

 इति । यत्र पुनः भिनोदरा भ्रातरः केचन संसृष्टाः सोदरभ्रातरो न सन्ति पितृव्यादयोऽपि संसृष्टाः तत्र भिनोदरभ्रातृगाम्येव धनमित्याह याज्ञवल्क्यः--