पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६५

पुटमेतत् सुपुष्टितम्
434
श्रीसरस्वतीविलासे

मरणे तद्धनस्य भ्रातृगामित्वमेव स्यात् न पुत्रगामित्वमिति । मैवं, पत्नीदुहितरन्यायवत् संसृष्टन्यायस्यापुत्रविषयत्वात् । यथाऽऽह संसृष्टिप्रकरणे नारदः--

भ्रातॄणामप्रजाः प्रेयात् कश्चिच्चेत्प्रव्रजेत वा ।

इति । देवलोऽपि--

ततो दायमपुत्रस्य विभजेरन् सहोदराः ।

इति । शङ्खोऽपि--

अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यमिति ।

पुत्रो विद्यमानो विभक्तो न संसृष्टः इत्युक्तमिति चेत्, किमसंसृष्टः पुत्रो न पुत्रः; पुत्रस्य हि पुत्रत्वेनैव प्राबल्यं न संसृष्टत्वेन वा विभक्तत्वेन वा 'अङ्गादङ्गात्सभवसि' इति मन्त्रवर्णात्तस्यात्मतया निरूपितत्वात् धनस्वामिनो मृतस्यात्मभूते तस्मिन्वर्तमाने सत्यन्यस्य तद्धनग्राहित्वशङ्कानुदायात् । एवं च यथा विभक्तोऽपि पुत्रः पुत्रत्वेनैव पत्न्याद्यपेक्षया प्रबलः । तथैव संसृष्टोऽपि पुत्रः पुत्रत्वेनैव संसृष्टभ्रात्रपेक्षया प्रबल इति तद्गाम्येव धनं । ननु पितृव्यादिभिस्संसृष्टस्य पितुर्धनं पुत्रैकनियतमित्युक्ते किमर्थं संसर्गः पित्रा तद्भ्रात्रादीनामिति चेन्मैवं । जीवद्दशायामुपचयार्थमेव संसर्गविधानं न तु भाविमरणाभिसन्धिना । अतो मरणानन्तरं न्यायतो विविच्यमानं स्वत्वं यत्र पर्यवसितं स्यात्तदेव ग्राह्यमिति । मृते पितरि संसृष्टे तत्संसृष्टैः पितृव्यादिभिः संसृष्टिदशायां भुक्तावशिष्टं धनमपाकृतावशिष्टं ऋणं पुत्रैरेव विभक्तैरप्यसंसृष्टिभिरपि स्वीकार्यमिति न कश्चिद्विरोधः । अन्तरङ्गन्यायेनासंसृष्टिनामेव धनग्राहित्वमाह याज्ञवल्क्यः--

असंसृष्ट्यपि चादद्यात् ।