पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६८

पुटमेतत् सुपुष्टितम्
437
व्यवहारकाण्डः

सोदर्या विभजेयुः स्तं समेत्य सहितास्समम् ।
भ्रातरो ये च संसृष्टाः भगिन्यश्च मनामयः ॥

इति । तद्विज्ञानयोगी व्याचष्टे-- येषां भ्रातॄणां संसृष्टानां मध्ये ज्येष्ठःकनिष्ठो मध्यमो वा अंशप्रदानतः-- अंशप्रदाने । सार्वविभक्तिकस्तसिः; विभागकाल इति यावत् । हीयेत स्वांशाद्भ्रश्येत आश्रमान्तरग्रहणेन वा ब्रह्महत्यादिना वा मरणेन वा तदा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिनो गृह्णीयुरित्यर्थः । तत्त्योद्धृतस्य विनियोगमाह 'सोदर्या विभजेयुस्तमिति' तमुद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगा अपि समागम्य सहिताः सम्भूय समंन्यूनाधिकविभाग(भाव)रहितं । ये च भ्रातरो भिन्नोदरास्संसृष्टास्ते च सनाभयो भगिन्यश्च गृह्णीयुरित्यर्थ इति । तदयमर्थः-- भिन्नोदरसंसृष्टिनामपचयभारसहिष्णुत्वमंशग्रहणे निमित्तं । एकोदराणां तु पिण्डदानाधिकारनिबन्धनान्तरङ्गन्याय एवांशग्रहणे निमित्तं । उभयनिमित्तं संसृष्टस्यैकोदराभावे वेदितव्यं । भगिनीनां तु संसृष्टधनविभागसमये दायविभागसमय इव यत्किंचित्प्रीत्या देयं न तु विभागः; तासां संसर्गाप्रसक्तेः । प्रसक्तानामेव विभागः । अतश्च भिन्नोदराणां संसृष्टानामसंसृष्टानामेकोदराणां समविभाग इति सिद्धम् ।

 अपरार्कचन्द्रिकाकारादयस्तु-- संसृष्टापुत्रद्रव्यं प्रथमतो भ्रातृगामि तदभावे पितृगामि तदभावे वृत्तस्थपत्न्यभिगामीति शङ्खोक्तवाचनिकक्रमेण पत्नीदुहितर इति नैयायिकक्रमो बाध्यते । अतः 'सोदर्या विभजेयुस्तं' इति वचनं क्रमपरमित्याहुः । तन्न, शङ्खोक्तक्रमस्य नैयायिकत्वं प्रतिपादितं प्राक् । शङ्खवचने पत्नीप्र