पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६९

पुटमेतत् सुपुष्टितम्
438
श्रीसरस्वतीविलासे

हणात् संसृष्टधनविभागसमये पत्न्या अपि भगिनीनामिव यत्किंचिद्देयमिति ध्येयं । अतश्च भारुचिविज्ञानयोगिमतमेव सम्यक् ।

अथ सर्व (वर्ण) विभागशेषः किञ्चिदुच्यते ।

तथा च मनुः--

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद्दृश्येत यत्किंचित्तत्सर्वं समतां नयेत् ॥

कात्यायनस्तु विशेषमाह--

प्रच्छादितं च यद्येन पुनरासाद्य तत्समम् ।
भजेरन् भ्रातृभिस्सार्धमभावे हि पितुस्सुऽताः ॥

पितुरभावे सर्वे सुता एव तदासादितं विभजेरन्नित्यर्थः । यथाऽऽह याज्ञवल्क्यः--

अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥

इति । अत्र समैरिति वदता उद्धारविभागो निषिद्धः । विभजेरन्निति वदता येन यद्दृश्यते तत्तेनैव न ग्राह्यमिति दर्शितं । अनेन वचनेनैव समुदितद्रव्यापहारे दायादानां न दोष इति ज्ञायत इति भारुच्यपरार्कसोमेश्वरादय आहुः । विज्ञानेश्वरस्तु-- ननु मनुना समुदितद्रव्यापहारे ज्येष्ठस्यैव दोषो न कनीयसां दोष इति दर्शितं ।

यो ज्येष्ठो हि निकुर्वीत लोभाद्भ्रातॄन्यवीयसः
स ज्येष्ठस्स्यादभागश्च नियन्तव्यश्च राजभिः ॥

इति । नैतत् ज्येष्ठमात्रविषयं सर्वेषां; यवीयसामपि । तथाच श्रुतिः-- "यो वै भागिनं भागान्नुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयते" इति । भागिनं-- भागार्हं भागान्नुदते भागा