पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७१

पुटमेतत् सुपुष्टितम्
440
श्रीसरस्वतीविलासे

वणिक्पथं च ये कुर्युः विभक्तास्ते न संशयः ॥

इति । विष्णुरपि-- क्रयविक्रयदानग्रहणप्रातिभाव्यसाक्षित्वसम्भूयकारित्वनिध्याधानादिकं परस्परकृतं विभागहेतुरिति । अयं क्रयविक्रयाधिकारहेतुः । अतश्च साक्षित्वप्रातिभाव्यदानग्रहणादीनि परस्परमेव न कार्याणि । भ्रातॄणां मध्ये इतराभ्यनुज्ञया एकस्य विभक्तपितृव्यादिकं प्रति प्रातिभाव्यादेः विहितत्वात् । तथा च स्मृतिः--

इतरेणानुजानानः प्रातिभाव्यं हरेत्परः ।

इति । अनेनाभिप्रायेणाह याज्ञवल्क्यः--

भ्रतॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यमृणं साध्यमविभक्तेन तु स्मृतम् ॥

इति । परस्परमिति शेषः । अत एवाह स एव--

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेख्यकैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ।

विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृसम्बन्धिभिः विभक्तपितृव्यादिभिः बन्धुभिः मातृसम्बन्धिभिः मातुलादिभिः पूर्वोक्तलक्षणैः लेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा च यौतकैः पृथक्कृतैः गृहक्षेत्रैश्च । च कारेण पृथक्पृथक् कृष्यादिप्रवर्तनं पृथक्क्पृथक् पञ्चमहायज्ञादिधमार्नुष्ठानं समुच्चीयते । तथा च नारदः--

विभागधर्मसन्देहे दायादानां विनिर्णयः ।
ज्ञातिभिर्भागलेख्येन पृथक्कार्यप्रवर्तना ॥

इति । अत्र लिखितसाक्ष्यादेः ज्ञापकहेतुत्वं । विभागसन्देहे सिद्धस्यैव विभागस्य ज्ञापकत्वात् । कारकहेतूनां त्वविद्यमानस्यापि