पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७४

पुटमेतत् सुपुष्टितम्
443
व्यवहारकाण्डः

न तु प्रमापकत्वे लिखितसाक्षिलिङ्गानां । विभागनिह्नवस्थले लिङ्गादितरप्राबल्यस्य स्मृत्याचारयोर्वेदानुमापकत्वे तुल्ये आचारमूलवेदानुमानात् स्मृतिमूलवेदानुमानस्य सुकरत्ववदित्यनुसन्धेयमिति । तन्न । चन्द्रिकाकारस्य लिङ्गशब्देन हेतुरभिप्रेतः । स च ज्ञापक एव । कारकहेतूनां लिखितादतिशयित्वान्न तुल्यतेति । अत्र कात्यायनः--

वसेयुर्दश वर्षाणि पृथक्धर्माः पृथक्क्रियाः ।
भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् ॥

भ्रातृशब्दोऽत्र रिक्थसम्बन्ध्युपलक्षणार्थं । पैतृकग्रहणं दायग्रहणोपलक्षणार्थमिति चन्द्रिकाकारः । तन्न, स्वत्वानुत्पत्तेरिति वक्ष्यते । ननु कार्यानुषङ्गाद्वा अशक्त्या वा दशवर्षपर्यन्तं दायग्रहणाभावे व्यवहारस्सिद्ध एवेति पूर्वप्रकरणोक्तं विरुन्ध्यादिति चेन्मैवं । परमार्थतो दायग्रहणाभावे ।

पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥

इतिवत् छलानुसारेण विभक्ता एवेति चन्द्रिकाकारः । अत्र छलं स्वोपेक्षानिबन्धनं । नन्वेवं पश्यतोऽब्रुवतो भूमेरित्यत्र न व्यवहारहानिः स्वस्वरूपहानिः । अपि तु फलहानिरित्युक्तं विज्ञानयोगिना । तद्वदत्रापि फलहानिरेव न स्वरूपहानिः न व्यवहारहानिरिति चेन्मैवं । भूमेर्हानिरित्यत्र कर्मणि षष्ठीविधानाद्विंशतिवार्षिको भोगो भूमिं हन्यादिति वाक्यार्थस्य निष्पन्नत्वात् । दशवार्षिको भोगो धनं हन्यादिति स्वरूपहानिरेवोक्ता । ननु--

छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।