पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७६

पुटमेतत् सुपुष्टितम्
445
व्यवहारकाण्डः

विभागो नाम-- समुदायद्रव्यविषयाणामनेकस्वाम्यानामेकैकत्रावस्थापनं इत्युक्तं प्राक् । तच्च वचनादवगम्यते । यथा--

आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते ।

इत्यत्र वाचनिकस्वत्वनिवृत्तिः परस्वत्वापत्तिरित्युक्तं विज्ञानयोगिना । चन्द्रिकाकारेणापि छलानुसारेण विभागो नास्तीति वदता वाचनिकस्वत्वापत्तिरित्युक्तं । नन्वेवं चन्द्रिकाकारेण आधिः प्रणश्येद्द्विगुण इत्यत्र तिलविनिमयादिदृष्टान्तेन आधेर्विनिमयान्तमङ्गीकृत्य तस्य विनिमयस्य स्वत्वहेतुता लोकसिद्धेत्युक्तमिति एवमत्रापि लोकसिद्ध्याश्रयेण प्रकारान्तरेणौदासीन्यस्वोपेक्षानिबन्धनस्वीकारोऽपि स्वत्वहेतुर्भवत्विति वाच्यं । पश्यतोऽब्रुवतो भूमेरित्यनेनैव दत्तोत्तरत्वात् । किञ्च तत्रापि चन्द्रिकाकारस्य वाचनिकदानान्तत्वं वा विनिमयद्रव्यस्य क्रयमूल्यतया क्रयान्तत्वं वा स्वीकर्तव्यमित्युक्तं प्राक् । स्वत्वस्य वाचनिकत्वं नाम पारिभाषिकत्वमित्युक्तमाधिः प्रणश्ये दित्यादिवचनव्याख्यानावसरे । तच्च पारिभाषिकत्वमत्र न वक्तुं शक्यते । दशवर्षपर्यन्तं तूष्णीमेवावस्थितत्वात् । परमार्थतोऽपि दायग्रहणाभाव इति चन्द्रिकाकारग्रन्थस्यायमर्थः-- परमार्थतो वस्तुवृत्त्या । दायग्रहणं विभागः । तस्याभावेऽपि पैतृकाद्धनाद्भ्रातरो विभक्ता एवेति । अयमाशयः-- यथेष्टविनियोगार्हत्वमेव स्वत्वं । तच्च जन्मनैव सिद्धं । कारकहेतूनां परस्परकर्तृकसाक्षित्वप्रातिभाव्यदानग्रहणक्रयविक्रयसम्भूयकारित्वनिध्यादीनां सद्भावे सत्येव विभागोत्पत्तिः । तेषां कारकत्वेनैव ज्ञापकत्वाभ्युपगमात् ।