पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८०

पुटमेतत् सुपुष्टितम्
449
व्यवहारकाण्डः

तैर्निर्णयः कर्तव्यः, एतेषामभावे कारकहेतुभिर्निर्णयः । उभय सद्भावे कारकहेतुरौत्सर्गिक एव । ज्ञापकहेतुभिस्तु दशवर्षपर्यन्तं परिवर्तितैरेव निर्णयो नान्यैः । दशवर्षपर्यन्तावस्थितानां ज्ञापकहेतूनां कारकत्वात्मनाऽवस्थितैः कारकहेतुभिरेव निर्णय इत्यर्थादुक्तं । इयांस्तु विशेषः-- स्वभावतः कारकहेतुभिः सद्य एव विभागसिद्धेस्तन्निर्णयः; ज्ञापकहेतुरूपकारकाणां दशवर्षपर्यन्त-- इति । सर्वाभावे दिव्यानवतारात् शुद्धो विभागः कर्तव्यः । उक्तहेतुभिः विभागसिद्धावपि व्यवहर्तृभ्रातृभ्यो यत्किञ्चिद्देयमिति सर्वमनवद्यम् ॥

इतिश्री प्रतापरुद्रमहादेवमहाराजविरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे
दायभागाख्य पदस्य विलासः


 S.VILASA.
57