पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०८

पुटमेतत् सुपुष्टितम्
477
व्यवहारकाण्डः

दमस्स्यादित्यभिप्रायः । अत एव बृहस्पतिः--

समानयोस्समो दण्डो न्यूने स्याद्द्विगुणस्स्मृतः ।
उत्तमस्याधिकं प्रोक्तं वाक्पारुष्ये परस्परम् ॥

इति । अत्र विशेषमाह नारदः--

पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ।
पश्चाद्यस्योद्यसत्कारी पूर्वे तु विनयो गुरुः ॥

पूर्वक्षारनिमित्तको विनयः पश्चात्क्षारणनिमित्तकविनयादभ्यधिको भवतीत्यर्थः ॥

 अत्र विशेषमाह विष्णुः-- तुल्यकालं रूक्षयोस्सम एव दण्ड इति । अत्र याज्ञवल्क्यः--

सत्यासत्यान्यथास्तोत्रैः न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥

न्यूनाङ्गाः कुण्यादयाः । न्यूनेन्द्रियाः काणादयः । रोगिणः कुष्ठादयः ।

दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरे ।

दण्डप्रणयनं-- दण्डविधानमिति भारुचिः । दण्डप्रणयनं दण्डस्य प्रकर्षेण नयनमूहनमिति विज्ञानेशः । वर्णाश्च जातयश्च उत्तराश्चाधराश्च वर्णजात्युत्तराधराः । उत्तराधरवर्णे जात्यपेक्षया दण्डप्रणयनं कार्यमित्यर्थः । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादुत्कृष्टं च आक्रुश्य ब्राह्मणक्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणात्मकात्किञ्चिदधिकं पञ्चसप्तत्यात्मकं दण्डमर्हति । क्षत्रियोऽपि तमाक्रुश्य ब्राह्मणक्षेपनिमित्ताच्च तद्दण्डादूनं पञ्चसप्ततिमेव दण्डं । मूर्धावसिक्तोऽपि तावुभावाक्रुश्य तमेव दण्डमर्हति । मूर्धावसिक्ताम्बष्ठादयोऽपि परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्षेप