पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२

पुटमेतत् सुपुष्टितम्
21
व्यवहारकाण्डः

नत्वात् । यद्यप्यत्र सङ्ख्याऽविवक्षिता । तथाप्युपसर्जनस्य तत्रैवान्तर्भावादेक एव पुरोहित इति अनेन द्वित्वसङ्ख्या न विरुध्यते । अथर्वाङ्गिरसे चेति शन्त्यादिकर्मसु कुशलमित्यर्थः शेषमतिरोहितार्थम् । एक एव पुरोहित इति नियमः । पुरोहितान्तरनिवृत्तिपरः न तु ज्योतिर्विन्निवृत्तिपरः । पुरोहितत्वाज्ज्योतिर्विदः पृथक्सम्पाद्यात्वात् । अत एव विष्णुः-- "ज्योतिर्वित्पुरोहितौ कार्यौ" इति ।

 तथाच राजलासके--

"ज्योतिर्वित्पुरोहितमन्त्रिणः कार्याः" इति ।

मन्त्रिण इति मन्त्रणं राजकार्यविचारः । यद्यपि याज्ञवल्क्येनोक्तम्--

"पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम्" इति ।

पुरोहित एव दैवज्ञश्चेत् दैवज्ञान्तरं न कर्तव्यम् । इत्येवं परमिति केचिद्व्याचक्षते ।

 "पुरोहितं च कुर्वीत दैवज्ञं च कुर्वीत" तौ कदेत्याकाङ्क्षायामाह "उदितोदितमिति" । उदितमुदयं भावे निष्ठा उदयसमयात् उदितमिति पञ्चमीसमासः । उदयात् पट्टबन्धात् पूर्वमेव ज्योतिर्विद्वरणम् । पट्टबन्धनानन्तरं पुरोहितवरणमिति । अत एवोक्तं राजलासके--

"वृतोपदिष्टमुहूर्तेऽभिषेकं कुर्यात्" इति

 वृतेन ज्योतिर्विदा उपदिष्ट इति वृतोपदिष्टः ।