पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५३०

पुटमेतत् सुपुष्टितम्
499
व्यवहारकाण्डः

तत्वात् । लोप आश्रमिणमिति अस्यार्थः-- आश्रमिणां ब्रह्मचारिगृहिवानप्रस्थयतीनां तद्विशेषाणां कुटीचकवहूदकहंसपरमहंसानां एकतीर्थ्यादीनां लोपः तद्धर्मलोपः स च निर्वाह्यः । यतीनां मध्ये यस्तु भ्रष्टस्स तु राज्ञो दास इति पूर्वमेव प्रतिपादितत्वात् तदेतद्विषयं न भवतीत्यवगन्तव्यं । सर्वसङ्करदोषः स्पष्ट एव । तद्वृत्तिनियमस्सोऽपि स्पष्टः । न दृष्टं यच्च पूर्वेषु इति । अयमर्थः-- यस्तु ग्रामेऽभिशस्तः प्रत्यर्थी नास्ति ग्रामीणास्तु अभिशाप इति वदन्ति तत्र राज्ञा निर्णयः कार्य इत्याद्यूह्यं । एते राजधर्माः प्रकरणादावेव वक्तव्याः तथाऽपि व्यवहारात्मकत्वात् व्यवहारपदानन्तरमेवोक्तमिति ध्येयं । अथवा सप्तदशविवादपदप्रकीर्णकपदयोः सङ्गत्यनन्तरं-- पूर्वं पराजितस्यैव दण्डविधानमुक्तं । अत्र जयिनोऽपि दण्डविधानमिति अनयोः सङ्गतिः । यथाऽऽह याज्ञवल्क्यः--

दुर्दृष्टांस्तु पुनर्दृष्टैर्व्यवहारान्नृपेण तु ।
सभ्यास्सजयिनो दण्ड्या विवादद्विगुणं दमम् ॥

अप्राप्तजेतृदण्डविधिरूपत्वाद्वचनस्य सभ्यदण्डपरत्वं सभ्यानां दोषसद्भावे दण्डविधानं प्रकरणादौ उक्तमिति जयिनो दण्डविधानमत्र प्रतिपाद्यते । अत्र यद्यपि भूतपूर्वगत्या जयिनो जयित्वं न पुनर्न्यायेन जितत्वादित्याशङ्क्य पूर्वत्र सप्तदशसु प्रकरणेषु यन्निर्णीतं तन्न परावर्त्यमित्युक्तं ।

सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा ।
कार्यं तु कारिणामेव निश्चितं न विचारयेत् ॥

इति स्मरणात् । अत्र तु सभ्यदोषसद्भावे पुनर्न्यायः कार्य इत्येवम्परं वचनमित्युक्तं व्याख्यातृभिः । अतश्च सङ्गतिश्चोक्तैव अस्मिन्प्रकरणे पुनर्न्यायः कार्य इति । अत एव याज्ञवल्क्यः--